________________
abshdesesesesesesesbobseasesbstendesesesedeoesedesibseseshstasastesesfashshesthodeshshsecastostedadeshoesfastesteoashotspot.deshish
सत्यासत्य विवेकपूतमनसा गच्छेऽचले सर्वथा । शैथिल्यं सकलं निरस्य नितरां भव्या जनानादरात् ॥ सूरीशश्रमणार्यरक्षितकृतं पक्षं विधिं यो ऽनयत् । तं गच्छाधिप गौतमाब्धिमनिशं वन्दे कलालब्धये ॥६॥ जैनाचार विचारनिर्मलजलैः संसिच्य धर्मद्रुमं । सम्यग्दर्शन बोधिपल्लवयुतं चारित्रपुष्पाञ्चितम् ।। जैनशासनमातनोत्सुखसुधाश्चास्वादयद् यो जनान् । तं श्री गौतमसागरं गुरुबरं वन्दे कलासागरः ॥७॥ लोकंलोककुलोपकारकुशलो मोहान्धकारेऽनिशं । मग्नं मग्नतमं विलोक्य कृपया ज्ञानप्रदीपम भाम् ॥ आविष्कृत्य विकृत्य मोहरजनी प्राचीकटत्कृत्यविद् । यस्तद्गौतमसागरेश्वरपदाम्भोजं शरण्यं श्रये ॥८॥ श्रीमदगौतमसिन्धुसूरिवृषभाः सन्मार्गसन्दर्शकाः । सद्धर्मप्रचुरप्रचार निरताः सत्कर्मसंसेवकाः ।। सद्रत्नत्रयदेशनामृतरसै रापशावयन्तोमहीम् । श्रद्धाभक्तिभराश्चितेनमनसा श्राद्धैः श्रयन्तां सदा ॥९॥ श्रीमद्गुणाब्धि गुणसागरसूरिवर्य
संसेव्यमानचरणाम्बुजगौतमार्याः ।। सरीश्वरा अचलगच्छपयोधिचन्द्रा ।
गच्छेऽश्चले विदधतां नितरां विभूतिम् ॥१०॥ श्री गौतमाब्धिपदपङ्कज चश्चरीक,
__ श्रीनीतिशिष्य गुणशिष्यकलाप्रभारिधः ॥ विद्याविवेकविनयादि गुणालयो में
छात्रो भृशं विजयतां सविनीतशिष्यः ॥११॥ नारायणान्त्यहरिणा कृतिना स्वकीय
विद्यार्थिनो मुनि कलाप्रभसागरस्य ।। स्नेह द्रुतेन रचितां मुनिगातमाब्धि
सूरीश्वरस्तुतिमिमां पठतां शुभस्यात् ॥१२।।
श्री माया गालात गंध
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org