________________
अचल गच्छाधिप आचार्य
गौतमसागरसूरीश्वर
- पं० श्री हरिनारायण मिश्र पालीग्रामे श्रिमालीद्विजवरतनयो धीरमल्लस्तदीया । जायाक्षेमल्लदेवी मरुभुवि सुषुवे पुण्यवन्तं गुलाबम् ॥ धीरं वीर गभीर गुणगणनिलयं, जैनधर्मानुरक्तम् । देवाब्धे दीक्षितं तं श्रित जिनचरणं गौतमाब्धि प्रवन्दे ॥१॥ हालारे कच्छदेशे जिनपतिचरणाम्भोजसेवावसक्तान् । कारं कारं मनुष्याजनहित निरतान् जैनधर्मानुरक्तान ॥ शुद्धाचारप्रचारे सततदृढमतिस्तत्परो यः सदाऽभूत् । श्री सङ्घस्याधिपं तं गुणिगणमहितं गौतमाब्धिं नमामि ॥२॥ सधो हृद्याऽनवद्यां निरवधिसुखदां जैनदीक्षां ददानः । साध्वीः साधून विधाप्यस्वपरहितरतः संय्यमाचार शुद्धयै ॥ ज्ञानागारानने कानमलगुणगणावाप्तये योऽयतिष्ट । तं गच्छस्याचलस्याधिपतियतिपतिं गौतमाब्धि श्रयेऽहं ॥३॥ श्रीकल्याणाधिपूरे (जनगरगते मन्दिरेपादुकाया । जीर्णोद्धारं विधाप्यानुपमितप्रतिमां तस्य प्रातिष्ठिपद् यः ॥ भव्याम्भोजप्रकाशे मुवचनकिरण दिव्यभानूयमान । सन्तं तं धर्मवन्तं सकरुणमनसं गौतमाब्धिं नतोऽहम् ॥४॥ स्वेच्छाचार विचाररोधनविधौ सद्वद्धकक्षोभवन् । भव्याचारमृगेन्द्रनादमतुलं व्याघोप्य यो निर्भयम् ।। भक्ष्या भक्ष्य विमर्शवर्जितजन सम्बोध्य शुद्धं व्यधात् । तं गच्छाधिपगौतमं मुनिवरं वन्दे विनम्रो भृशम् ॥५॥
શ્રી આર્ય કયાગૌતમસ્મૃતિ ગ્રંથ કહીએE '
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org