________________
परमपूज्ययुगप्रधानाऽऽचार्य भगवन्त श्री कल्याणसागरसूरीश्वराणाम स्तुतिः
- अचलगच्छाधिपति, ५० पू० आचार्यदेव श्री गुणसागरसूरीश्वरशिष्यपहधगचार्यदेव श्रीगुणोदयसागरसूरीश्वरशिष्याणुः मुनिश्री वीरभद्रसागरः ।
(शार्दूलविक्रीडित वृत्तम) वैशाखे रसके तिथौ शुभ-दिने पक्षे वलक्षे तथा संध्या-राम-रसाचलाभिकलिते [१६३३] संवत्सरे वैक्रमे । प्रख्याते वढियारदेशतिलके लोलापुरे' पाटके जातोऽभूज्जिनभक्तश्रेष्ठिसुकुले क्षेमाब्धिसूरीश्वरः ॥१॥ जंघा-वेद-समास-चंद्र प्रमिते ( १६४२ ) ह्यब्दे शुमे वैक्रमे संध्यायां सुतिथौ वरे शुभदिने राधेऽथ शुक्ले तथा । सत्तीर्थे धवलेपुरे निधिवये लब्ध्वा व्रतं शांतिदम् प्राप्तान् धर्मपदारविंदयुगलम् तान्भद्रपादान्स्तुवे शब्दाधि निजनामवन्नधिगतं श्रीपाणिनीयं वरम् छंदस्तर्क सुशास्त्र काव्यविषये लब्धं वरं कौशलम् । बाल्यादेव जिनागमे निपुणता प्राप्ता च षड्दर्शने यैः शास्त्रार्जनबोधदाननिरतान् तान्भद्रपादान्स्तुवे ॥३॥ शास्त्राणां रचने नितान्त कुशलं येषां मनो भ्राजते स्वात्मार्थ जिनशासनार्थमनिशं सत्कर्मणां साधने ।
॥२॥
(१) अधुना 'लोलाडा' इति प्रसिद्ध ग्रामः । (२) ये ये सान्ता स्ते ते अदन्ता इति नियमात् वयश्शब्दो अदन्तोऽपि । (३) तृतीयायाम् ।
મિ શ્રી આર્ય કયા ગોતમ સ્મૃતિગ્રંથ 3D
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org