________________
stasteste stedestestedtestosteste de sedade de dadososeslauestodestastestedastastestestestesteslesta festaste sted.sedadeleste doubledectadostetstesteedde L
आदिनाथ स्तोत्रम् सकलमङ्गलदं रुचिरच्छविं दूरितशैलविभेदनसत्पविम् । जिनवरं नृपनाभितनूरुहं विपुलसौख्यकरं प्रणमाम्यहम् ॥१॥ स्वर्णाभं गुणभासुर घृतशमं ज्ञानश्रियालङ्कृत, सम्यक्पुण्यपथ प्ररुपणपरन्यायव्रतत्यम्बुदम् । शकवातसुसेव्यमानचरणाम्भोजद्वयं सन्ततम्, वन्देऽहं त्रिजगदगुरुं गुरुतरु मोहान्धकारे रविम् ॥२॥ निखिलसौख्यमहार्णवसद्विधु गुणसितच्छदखेलनमानसम् । प्रशमसिन्धुरवन्ध्यमहीधर, जिनपतिं प्रणमामि वृषाङ्कितम् ॥ ३॥ यशः श्रिया निर्जितचन्द्रदीधिति, ध्यानामलज्वलितकर्मसन्ततिम् । नीरागतादूरित भाव विद्विष सेवे युगादीशजिनं महात्विषम् ॥ ४॥ वैराग्यमानससरोवर राजहंस प्रौढप्रभासुरनरेशशिरोऽवतंसं । इक्ष्वाकुवंशतिलकं भुवनाभिरामं, कामं दधामि हृदये प्रथमं जिनेशम् ॥ ५ ॥ सन्ततं जलजतायुतमत्र, पङ्कजं च शशिनं च विमुष्य । अद्वितीयकमलापदपद्म, सेवे ते तव विभो ! गत शेषम् ॥ ६ ॥ एवं श्रीऋषभ गुरुत्तमगुणं यः स्तौति भक्त्यान्वहं, भव्याम्भोज विकाशनग्रहपति स्फारप्रभाशालिनम् । तस्यानन्दविधायिनो प्रतिदिनं 'मेरु'स्थितिस्थेयसी, लक्ष्मीश्मनि रमीति जनता पुष्पप्रतिष्टोदया ॥७॥ (इति प्रवर्तिनी वा. साध्वीश्री मेहलक्ष्मीगणिनीकृतं श्री आदिनाथस्तवनम्) तारङ्गामण्डन श्री अजितनाथ स्तोत्रम्
(अनुष्टुप् छन्दः) केवलज्ञानसम्पूर्ण, वन्देऽहमजितं जिनम् । इक्ष्वाकुवंशशृङ्गारसार, मुक्ताफलोपमम् ॥ १॥ जितशत्रुकुलाम्भोजे, विजयाकुक्षिपल्लवे । सुस्वरः शुद्धपक्षोऽयं, राजते राजहंसवत् ॥२॥ मोहमललविजेतारं रागद्वेष विवर्जितम् । स्तौमि श्री अजितदेवं, सुरासुरनमस्कृतम् ॥३॥ अनन्त गुणधातार, सन्तोषसुखसागरम् । प्रणमामि महाभत्त्या, वैजयेयं जिनेश्वरम् ॥ ४ ॥ एवं स्तुतो महाभक्त्या तारणाद्रिविभूषणम ।
श्रीमान् अजितस्वामि दद्यान्मे वाञ्छितंफलम् ॥ ५॥ (इति प्रवर्तिनी वा. साध्वी श्री मेरुलक्ष्मीगणिनोकृतं तारामण्डन श्री अजितनाथस्तवम् ।)
MU0
શ્રી આર્ય કહ્યાગોલમસાિંથી એ
COM
T
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org