________________
ततो सूरिवरो भुजनगर संघस्य विज्ञप्त्या भुजनगरे समागतः । महामहोत्सवेन च तत्रत्य संघेन प्रवेशितः । महेन्द्रश्री-पुण्यप्रभांश्रियौ च साध्यो उपाध्यायेन योगोवहनं कारितौ । योगोवहनं कारयित्वाऽचलगच्छाधिपतिश्रीगौतमसूरीश्वराज्ञया उपाध्यायेन गुणसागरगणिना बृहद्दीक्षा ताभ्यः प्रदत्ता।
तस्मिन्नेव वर्षे सूरिवरस्याऽनारोग्यता संजाता । तादृश्यामवस्थायामपि सूरिवरेण स्वाध्यायप्रियतया ज्ञानप्रियतयाऽप्रमत्ततया च कश्चिद् जैनग्रंथो लिखित्वा पूर्णीकृतो, जीवनपर्यंतमेकाशनतपः कारिणा सूरिवरेण पर्वेषूपवास-आचाम्ल-तपःकरणं सादृश्यवस्थायामपि न त्यक्तम् । परमयोगोश्वरः परमत्यागी च परमतपस्वी सोऽचलगच्छाधिपतिरेकोननवतिवर्षीयोऽपि चतुरशीतिलक्षयोनिजीवान् क्षमयित्वा, ऽष्टादशपापस्थानकानि विसर्जयित्वा, चत्वारि शरणानि स्वीकृत्य, प्रत्याख्यातचतुर्विधाहारो, नमस्कार-महामंत्र ध्यायन् सूरिवरो नवाधिकद्विसहस्रतमे विक्रमीयसंवत्सर वैशाखशुक्लत्रयोदश्यां रात्र्याश्चरमयामे राइप्रतिक्रमणं कुर्वन् समाघिना कालं कृत्वा स्वर्गवासी संजातः ।
अनेनाचलगच्छाधिपतिना सर्वविरतित्यागमार्गविलुप्तकारिणामुन्मार्गगामिनां कुमार्ग त्यक्त्वा सर्वविरतित्यागमार्गस्याऽनेक -कष्टसंकटान् सहित्वाऽपि एतं सुविहितमुनिमार्ग संजीवनं कृत्वा विश्वोपरि महोपकारः कृतः । विशुद्धसर्वविरतेः पालकाय विशुद्धजैनधर्मरक्षकप्रचारकाय महातपस्विनेऽचलगच्छाधीश्वराय गौतमसागरसूरीश्वरायाऽस्माकं कोटिकोटिनमस्काराः सन्तु । अचलगच्छाधिपतेरस्योपदेशेन बहवो जिनालयास्ततत्प्रतिष्ठा उपाश्रया धर्मज्ञानलाभाय ज्ञानभंडारा जीर्णोद्धाराश्च संजाता, बहवः साधुसाच्यो द्वादशादिवतधारकाश्च श्रावकश्राविकाश्चाभवन् , गुरुमंदिराणि दादागुरुश्रीकल्याणसागरसूरि-प्रतिमा निर्माण-प्रतिष्ठाश्चाभवन् , जिनालय-शताब्दी-तप-उपधान-महामहोत्सवाश्चाऽभवन् । ___ इदं संक्षिप्तं श्रीअचलगच्छाधिपतिगौतमसागरसूरिवरचरित्रं शिष्यप्रशिष्यादिविज्ञप्त्यागुरुभक्त्या च कृत्वा पत्रिंशदधिकद्विसहस्रतमे विक्रमीयसंवत्सरे फाल्गुन-पूर्णिमा-दिवसे मया गुणसागरसूरिणा संपूर्णीकृतम् । मुंबापुर्या खारेकविपणिस्थे श्रीकच्छीदशाभोसवाल-जैन-ज्ञातेः श्रेष्ठिश्रीनरसिंह-नाथाभाईवर्यजिनालयस्थे श्रीअनंतनाथजिनप्रसादस्यैव जिनालयस्य उपाश्रये । शुभं भूयात् ।
માં ઝીઆર્ય ક યાણગૉતમસ્મૃતિ ગ્રંથ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org