________________
[ ५४ ]
astashohotoofto stay
ततो गुरुवराज्ञया भुजपुरग्रामे गत्वा तत्रैकां कुमारीमेकां च सधवां दीक्षितां कृत्वोपाध्यायेन गुणसागरगणिवरेण ताभ्यां क्रमेण गुणोदयश्री हरिप्रभाश्रीरिति नामनी दत्ते । अथ उपाध्यायस्तूर्णं गुरुवरपार्श्वे गोधराग्रामे समागतो, गोधरा - जिनालयस्याऽर्धशताब्दी महामहोत्सवस्तत्रत्यसंघेन कृतः । तस्मिन् महोत्सवे ध्वजदंडप्रतिष्ठाऽपि संजाता । तत्र निश्रां दत्त्वा गुरुवरो बाडाग्रामस्य जिनालयस्याऽर्धशताब्दी महोत्सवसहिते पुनः प्रतिष्ठा महोत्सवे तत्रत्य संघस्य विज्ञप्त्या गुरुवरो बाडाग्रामे समागत्य निश्रां ददौ । ततो विहृत्य बीदडा - भुजपुर-कांडागरादि-ग्रामेषु महोत्सव - प्रसंगे निश्रां ददानो बीदडाग्रामे पुनः गुरुवरः समागतः । संघस्य साग्रह विज्ञप्त्या तत्र चातुसं कृत्वा गुरुवर आशंबीयाग्रामे समागतः । ततः फरादीग्रामे समागत्य तत्र मासकल्पं कृत्वा रामाणीया ग्रामस्य जिनालयस्याऽर्धशताब्दी सुवर्णमहामहोत्सवे नूतनध्वजदंड प्रतिष्ठामहोत्सवे संघस्य साग्रहविज्ञप्त्या गुरुवरस्तत्र समागतः । तस्मिन् महोत्सवे जिनेंद्रसामरस्रे गृहस्थ शिष्येण क्षमानन्देन गुरुवरस्य प्रोक्तम्- यतोश्वरा जिनेंद्रसागरसूरयो दिवं गताः तस्य स्वर्गगतस्य पंच वर्षाणि संजातानि तत्पट्टे कोऽपि न समागतो, यूयं सर्वरीत्या योग्यं:, तेन यूयं एतत्स्थानमलंकुरुध्वम्, आचार्यपदं गच्छनायकपदं च स्वीकुरुध्वम् । इति । गुरुवरेण प्रोक्तम्-त्वं त्यागी पंचमहाव्रतधारी साधुर्भव, तुभ्यमाचार्यपदं गच्छनायकपदं च दास्ये । क्षमानन्देन कथितम् -- एतत्पदग्रहणे नाहं समर्थो, मम युष्माभि र्बहुवारमेतत्प्रोक्तमस्ति परं शक्तिहीनेन मया तन्न स्वीकृतम् । कृपां कृत्वा यूयमेव स्वीकुरुध्वं तत्स्थानम् । तस्य स्थानस्य कृते गुरुवरस्थाऽनेकधा विज्ञप्तयोऽभवन् । तथापि तत्स्थानमनिच्छता गुरुवरेण कदापि तन्न स्वीकृतम् । परं भाविभावेन गुरुवरस्य मुखत इति शब्दा निर्मताः, 'यदि मत्पश्चाद् मम सेवाकारकं उपाध्यायगुणसागरं मम पट्टधरं विदधीध्वं तदाहमाचार्यपदं मच्छेशपदं स्वीकुर्या, तन्निशम्य क्षमानन्देन तत्रत्यसंघेन च सानंदं तत्स्वीकृत्य प्रोक्तम्विशिष्टविधिना सर्वत्र घोषणां कृत्वा तत्पदं दास्यामः । अधुना अत्रव्यमहोत्सवस्य पूर्णाहूतिः प्रायः सांजाता । अद्य महोत्सवस्याऽन्तिमदिनम् विक्रमीय- नवाधिक द्विसहस्रतमवर्षस्य माघशुक्लत्रयोदशी समस्ति | जिनालयस्य नूतनध्वजारोहण दिवसोऽस्ति । तेन वयमद्येति प्रघोषयामो- यद् यतो यूयं अचलगच्छाधिपतय आचार्यदेवश्री गौतम सागरसूरीश्वरास्ततो जिनालय - ध्वजारोहण समये दशदिक्पालाह्वाहन विसर्जनसमये जिनालयोपरि इति दशदशधा प्रघोषितं क्षमानन्देन संघेन चाऽचलगच्छाधीश्वराssचार्य श्रीगौतमसागरसूरीश्वर विजयसाम्राज्ये पूर्वदिशाधिपते, इन्द्राऽत्रागच्छ, पूजां बलिं गृहाण, गृहाण स्वाहेत्यादि ।
આ શ્રી આર્ય કલ્યાણ ગૌતમ સ્મૃતિ ગ્રંથ
esta chashastofoto chochote chootachesecst
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org