________________
[43]
प्रधानश्री देवपुरग्रामे जगत्श्री - हीरश्रीरिति नाम्न्यः साध्यः कृता, विद्यासागर - देवेन्द्रसागरौ इति नामानौ साधू कृतौ तौ द्वावपि उपाध्यायस्य शिष्यों संजातौ । ततो गुरुवरेण नलीयाग्रामे चातुर्मासं कृतम् । तस्मिन् चातुर्मासे गुरवराज्ञयोपाध्यायेन व्याख्याने विस्तृतविवेचनपूर्वकं सूयगडांगसूत्रं वाचितं, दशवैकालिकाऽऽचारांगसूत्रस्य च साधुसाध्वीभ्यो वाचना दत्ता । नवनवतितमे वर्षे चातुर्मासं तत्र पूर्णीकृत्य ग्रामाद्ग्रामं विहृत्य विक्रमीय - द्विसहस्रत मे संवत्सरेऽपि संघविज्ञप्त्या नयाग्राम एव गुरुवरेण चातुर्मास कृतम् । ततो विहृत्य गुरुवारो वराडीयाग्रामे समागतः । तत्रोपाध्यायेन दीक्षां दत्वोत्तम श्रीः साध्वी कृता ।
stastastasasastastastastastastastastastastastastastastastastastasevalalastases ssscbseasesbache sosacease.se.chacacoste of fasta castestostess st
एकाधिकद्विसहस्रतमे संवत्सरे गुरुवरेण देवपुरग्रामे चातुर्मास कृतम् । आशंबीया - नलीया देवपुर चातुर्मासेषु शेषकालेषु चान्यत्कार्येण सह गुरुसेवां कुर्वतोपाध्यायेन गुरुवराज्ञया संस्कृतभाषायां रचयित्वा द्वादशपर्वकथा संग्रहग्रंथः पूर्णीकृतस्तेन गुरुवरस्य प्रभृतानन्दः संजातः । ततः सुथरोतीर्थ संघस्य विज्ञप्त्या, वृद्धत्वकारणेन च गुरुवरेण चत्वारि चातुर्मासानि सुथरीतीर्थे कृतानि । सुथरी समागच्छता गुरुणोपाध्यायस्य मातरं देढीयाप्रामे दीक्षितां कृत्वा तस्या धर्मश्रीरिति नाम स्थापितम् ।
त्र्यधिकद्विसहस्रतमे सवत्सरे गुरुवरेण स्वाज्ञावर्ता साधुसाध्वी समुदायः स्वसेवाकर्त्रे उपाध्यायगुणसागरगणिवराय योग्यतां ज्ञात्वा समर्पितः । स्वयं च गुरुदेवो विशिष्टात्मसाधनां कर्तुं लग्नः । चतुर्षु वर्षेषूयाध्यायेन गुरुवराज्ञया दीक्षां दत्त्वा चंद्रसागरोऽमरेन्द्रसागरो भद्रंकरसागरश्चेति नामानः साधवः कृताः । ते त्रयोऽपि उपाध्यायस्य शिष्याः संजाताः । ततः गुरुवरो गोधराग्रामसंघस्य साग्रहां विज्ञप्ति स्वीकृत्य, कुंदरोडीग्रामे नूतनजिनालय प्रतिष्ठां कर्तुं प्रेषितमुपाध्यायं समाकार्य गोधराग्रामे गत्वा तत्र चातुर्मासं कृतवान् । सुथरीस्थिरतायां गुरुवराज्ञया उपाध्यायेन संस्कृतभाषायां श्रीपालचरित्रं रचितं चतुर्विंशतिजिनस्तुति - चतुर्विंशतिका च रचिता, गुर्जरभाषायां च चतुर्विंशतिजिनस्तवन- चतुर्विशतिका रचिता, अन्यान्यपि स्तुतिस्तवनानि रचितानि । एतेन रचनाकार्येण गुरुवरोऽतीव संतुष्टः संजातः ।
"
.
षडधिक - द्विसहस्रत मे संवत्सरे गोधराग्रामे चातुर्मासं कृत्वा रायणग्रामे च जिनालयाऽर्धशताब्दी महोत्सवप्रसंगे च नित्रां दवा, तत्र स्वनेत्रे शस्त्रक्रियां कारयित्वा प्राग उपाध्यायेन दीक्षितायै खीरभद्राश्रयै वृहदीक्षां दत्त्वा गोधराग्रामे समागत्य संघस्य विज्ञप्त्या सप्ताधिकद्विसहस्रतमे संवत्सरे गुरुवरेण चातुर्मासं कृतम् ।
શ્રી આર્ય કલ્યાણ ગૌતમ સ્મૃતિગ્રંથ
Prope
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org