________________
L
[५२]
J
deodesteobdeshshobstasesfesbdesbsedesechootestessesboboedesesesbobotsbobsbitedeodeshdesbshddeshshradeshdesesedesesedteshotsbe
संघकृतमहामहेन नगरे प्रवेशः कृतः । अथ तुंबडीग्रामस्य नानबाइ कुमारिकायै दीक्षां दातु गुरुवरेण प्रेषितेन गुणसागरेण मुनिना महामहोत्सवपूर्वकं तस्यै दीक्षां दत्वा नरेंद्रश्रीरिति नाम दत्तम् । ततो गुणसागरो मुनि र्गुरुवर समीपे समागत्य स्थितः ।
अथ गुरुणा षण्णवतितमे संवत्सरे चातुर्मासं भुजनगरे कृतम् । तस्य प्राग् जामनगरस्य सौरठीयाधनजितः श्रावकस्य दीक्षा संजाता । गुरुवरेण · तस्मै धरणेन्द्रसागर इति नाम दत्तम् चातुर्मासं च तत्र कृतम् । तस्मिन् चातुर्मासे प्रान्ते मुनिवरस्य नोतिसागरगणिवरस्य आकस्मिकं स्वर्गगमनं संजातम् । तथैव मुनेश्चंद्रसागरस्यापि कालधर्मः संजातः । तेन गुरुवरेण महाघातोऽनुभृतः। चातुर्मासानन्तरं संघेन तयो मुनिवरयोः कृते महामहोत्सवः कृतः । ततो गुरुवरेण धरणेन्द्रसागराय योगोद्वहनपूर्वकं बृहदीक्षा दत्ता । मृतगुरोः शिष्यो न क्रियते तेन गुणसागरस्य शिष्यः कृतः ।
__ ततो नलीयाग्रामे जिनालयशताब्दीमहोत्सवस्य विज्ञप्तिः तत्रत्यसंघेन कृता ता स्वीकृत्य गुरुवरेण तत्र गंतु विहारं कृत्वा तेराग्रामे ससत्कारं प्रवेशः कृतः । स्वस्य वृद्धावस्था कारणेन धर्मोपदेशस्य कार्य गुरुवरेण गुणसागरमुनये समर्पितमस्ति । तेन भुजनगरेऽपि गुणसागरमुनि र्व्याख्यानदाताऽभवत् । प्रतिग्रामेष्वपि गुणसागरमुनिरेवोपदेशं ददाति, गुरोः सेवामपि करोति । तेराग्रामे देशनाप्रतिबुद्धा बहवः श्रावकश्राविका अन्ये च व्रतानि स्वीचक्रुः । ततो गुरुवरो नलीयाग्रामे समागत्य ससत्कारं प्रविष्टः । भव्यरीत्या जिनालयस्य शताब्दीमहोत्सवः संपन्नः ।
ततो गुरुवरो ग्रामानुग्रामं विहरन् लध्वाशंबीयाग्रामे महोद्यापनमकारयत् । ततो गुरुवरेण गोधराग्रामे सप्तनवतितमे संवत्सरे संधविज्ञप्त्या चातुर्मासं कृतम् । गुरुवराज्ञया तस्मिन् चातुर्मासे गुणसागरेण मुनिना प्रतिदिनं द्विवारं व्याख्यानं कुर्वताऽपि संस्कृतभाषायां षट् चरित्राणि रचितानि एकादश अंगसूत्राण्यपि वाचितानि । गुरुवरं वंदितु बहुग्रामेभ्यः श्रावकसंघाः समाययुः ।
ततो विहरन् गुरुवरो मेराउ-ग्रामे समागतः । तत्र गुणसागराय मुनये तत्त्वज्ञानाकृष्टेन गुरुवरेणोपाध्यायपदं प्रदत्तम् ; आगतो मुनिश्चोपाध्यायस्य शिष्यः कृतः । चन्दनसागरश्च तस्य नाम कृतम् । ततोऽष्टनवतितमे संवत्सरे बृहदाशंबीयाग्रामे संघविज्ञप्त्या गुरुवरेण चातुर्मासं कृतम् । संघस्य विज्ञप्त्या गुरुवरस्याज्ञया च उपाध्यायेन गुणसागरगणिवरेण व्याख्याने श्रीभगवती सूत्रं विशद विवेचनपूर्वकं श्रावितम् । ततो विहारं कृत्वा गुरुवरो ग्रामाद्ग्रामं यावनं चकार ।
गुरुवराज्ञया उपाध्यायेन दीक्षां दत्वा सुथरीतीर्थे लब्धिश्री-रत्नश्री वराडीयाग्रामे कांतिश्री
કહ્યું. આ શી આર્ય કયાા ગામસ્મૃતિગ્રંથ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org