________________
Actetudastateste
stededededese
de sostestasestedestesos destestetstestate deskededeededostote stedestedeste destacadostasustastastedestdesteste
ततो गुरुवरेण दीक्षां दत्त्वा सौभाग्यश्रीः साध्वी कृता । द्विनवतितमे संवत्सरे च जामनगरे चातुसिं कृतम् ।
ततो भलसाणस्य यात्रासंघो निष्काशितः । मोडपुरे प्रतिष्ठा च ध्वजदंडप्रतिष्ठा च कारिता। त्रिनवतितमे वर्षे जामनगरे चातुर्मासं कृतम् । ततस्तत्र दादाश्री--कल्याणसागरसूरमूर्ति देवकुलिकायां प्रतिष्ठिता।
तस्मिन् त्रिनवतितमे संवत्सरे कच्छदेढीयाग्रामे तत्रत्येन लालजिदात्मजेन गांगजिता श्रावण गुरुवराज्ञां लात्वा चैत्रकृष्णाष्टम्यां दीक्षा ग्रहीता, मुनिश्रीदासागरेण दीक्षां दत्त्वा मुनिश्रीनीतिसागरस्य शिष्यः कृतः । ततो गुरुवरेण चतुर्नवतितमे वर्षे जामनगरे चातुर्मासं कृतम् । जयंतीश्रीसमताश्रियौ च साध्यौ संजाते । नूतनसाध्वीनां च सर्वासां बृहद्दीक्षा संजाता । मुनिश्रीदानसागरशिष्यो नेमसागरो नीतिसागरशिष्यो गुणसागरश्च जामनगरे समागतो, गुरुवरेण योगोद्वहनपूर्वकं गुणसागराय बृहद्दीक्षा दत्ता । ततः पंचनवतितमे वर्षे जामनगरे चातुर्मासं गुरुवरेण कृतम् । ततो गुरुणा कच्छभुजनगरे द्वाभ्यां कुमारिकाभ्यां दीक्षां दातु मुनिगुणसागरः प्रेषितः । गुणसागरेण भुजनगरे गत्वा ताभ्यां दीक्षां दत्त्वा मनहरश्री/रजश्रीरिति नाम्नी दत्तौ। ततो गुरुवराज्ञया गुणसागरो जामनगरे गुरुवरसमीपे समाययो, गुरूणां जीवनपर्यंतं च गुरुवरसमीप गुरुवरस्य सेवां कुर्वन् स्थितः ।
इतः परं कार्तिक शुक्लप्रतिपदः संवत्सरगणना ज्ञातव्या, तेन पंचनवतितमे संवत्सरे गुरुवरेण जामनगरे चातुर्मासं कृतम् । तत्र चातुर्मासे गुरुवरसमीपे नीतिसागर-दानसागर-नेमसागर-गुणसागरा एते चत्वारो मुनयो बभूवुः । सर्वेऽन्ये मुनयो कालधर्म प्राप्ता आसन् ।
हालारदेशे विहृत्य गुरुवरेण कच्छदेशविहारः कृतः तददिनात्प्राग् वीरपारश्रावकेन दीक्षा ग्रहीता । स मुनि नेमसागरस्य शिष्यो विवेकसागरनामा संजातः । गुरुवरो विहारं कुर्वन् लतिपुरग्रामे समागतः । ततो मुनिदानसागर-नेमसागर-विवेकसागराः साई नागताः ।
गुरुवरस्ततो विहारं कुर्वन् बीरपुरग्रामे समागतः । तदा मार्गे साधुवेशपरिधानं कृत्वा अष्टादशवर्षीयो युवा समागतो यो दीक्षार्थित्वेन सहैव समागच्छन्नस्ति तं युवानं दीक्षां दत्त्वा गुणसागरस्य शिष्यः कृतश्चंद्रसागरनामा स संजातः । अथ गुरुवरो विहारं कुर्वन् भद्रेश्वरतीर्थ समागात् । तीर्थयात्रां च कृत्वा स्वं धन्यममन्यत । तत्र फाल्गुनशुक्लपंचम्यां यात्रामेलको भवति - तेन गुरुवरागमनकारणेन च बहुजनाः समागताः । तैर्गुरुवर वंदित्वा स्वस्वग्रामे समागन्तुं गुरुवरस्य विज्ञप्तिः कृता । गुरुवरेण भुजनगरस्य विज्ञप्तिं स्वीकृत्य, संघेन सह भुजनगरे समागत्य
શ્રી આર્ય કલ્યાણગૌતમસ્મૃતિ ગ્રંથ BOLE
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org