SearchBrowseAboutContactDonate
Page Preview
Page 1067
Loading...
Download File
Download File
Page Text
________________ [१०] कककककककbhashast, stastashe she she se she she seese she othe बाईश्राविकायै केवलश्रीरिति नाम प्रदत्तं तत्पुत्र्यै च मुक्तिश्रीरिति नाम दत्तम् । ततो गुरुवराज्ञयामुनिधर्मसागरेण हालारदेशस्य नवाग्रामे चेलाग्रामवासिन्यायै हीरबाईश्राविकायै दीक्षा दत्ता हरखश्रीरिति नाम दत्तम् । ततो जामनगरसमागताभ्यो नवदीक्षिताभ्यः साध्वीभ्यो गुरुवरेण योगोदवहनपूर्वकं बृहददीक्षा प्रदत्ता । ततो गुरुवरेग द्वयशीतितमे संवत्सरे जामनगरे चातुर्मासं कृतम् । ततः कच्छवागडस्थाssधोइग्रामस्य खीमजिता गुरुवरहस्तेन दीक्षा ग्रहीता, तस्य क्षान्तिसागर इति नाम संजातं, स्वशिष्यस्य नीतिसागरमुनेः शिष्यः संजातः । गुरुवरेणाकारितेन मुनिमोहनसागरेण मतिसागरनामा स्वशिष्यः कृतः । स कच्छजखौनिवासी बभूव । तेन शिष्येण सहागतेन मोहनसागरेण स्वशिष्याय गुरुवरहस्तेन योगोद्वहनपूर्वकं बृहददीक्षा प्रदापिता । क्षान्तिसागरस्यापि बृहददीक्षा मोडपुरग्रामे गुरुवरहस्तेन संजाता । ततो हालारदेशे विहृत्य जामनगरं समेत्य त्र्यशीतितमे संवत्सरे संघस्य विज्ञप्त्या तत्रैव चातुर्मासं गुरुवरेण कृतम् । विंशति-स्थानकतप आराधनां कर्तुं गुरुवरेण प्रारंभः कृतः । प्रतिमासं दश उपवासान् कर्तुं गुरुवरः प्रवृत्तः । गुरुवरो हालारदेशे धर्मप्रचारं कुर्वन् जामनगरं समागत्य तत्र चतुरशीतितमे संवत्सरे चातुर्मास चकार । ततो हालारदेशे नागेडीग्रामे कच्छरा परग्रामस्य देवलीबाईश्राविकायै दीक्षां दत्वा गुरुवरेण दीक्षितश्रीरिति नाम दत्तम् । ततो लाखाबावरग्रामे कच्छ कोठाराग्रामस्थ चांyबाईश्राविकायै दीक्षां दत्या चतुरश्रीरिति नाम दत्तम् । तयोः साध्योर्योगोद्वहनं कारयित्वा नवाग्राममध्ये बृहददीक्षा च दत्ता । ततो गुरुवरो पडाणायामे समागतः । तत्र जिनालयं कर्तुमुपदेशं दत्त्वा तत्कृते द्रव्यराशिरेकत्र कारितः । ततो गुरुवरेण जामनगर समागत्य तत्र मुनिश्री - नीति सागरस्य धर्मसागरस्य च सूयगडांग - ठाणांग - समवायांगादिसूत्राणां योगोदवहनं कारितम् । पंचाशीतितमे संवत्सरे संघविज्ञप्त्या च जामनगरे चातुर्मासं गौतमसागरगुरुवरेण कृतम् । ततो गुरुवरः कच्छदेशे भुजनगरे षडशी - तितमे संवत्सरे चातुर्मासं चकार । चातुर्मासात्प्राग् लायजाग्रामस्त्र लाखबाईश्राविकायै लायजाग्रामे दीक्षां दत्त्वा गुरुवरेणाऽशोकश्रीरिति नाम दत्तम् । i सप्ताशीतितमे संवत्सरे गुरुवरेण जामनगरे चातुर्मासं कृतम् । तस्मिन्नेव वर्ष इन्द्रश्री- विद्याश्रीरमणिक श्री नवीनाः साध्वीरकारयत् गुरुवरो । अष्टाशीतितमे, एकोननवतितमे, नवतितमे च संवत्सरे जामनगरे गुरुवरेण चातुर्मासानि कृतानि । एकनवतितमे वर्षे बृहत्खावडी ग्रामे चातुर्मासं कृतम् । ततस्तत्र समाधानं कृत्वा मुनिदानसागरं मुनिनीति सागरस्य शिष्यं कृत्वा स्वसमुदायेऽमेलयत । શ્રી આર્ય કલ્યાણ ગૌતમ સ્મૃતિગ્રંથ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012034
Book TitleArya Kalyan Gautam Smruti Granth
Original Sutra AuthorN/A
AuthorKalaprabhsagar
PublisherKalyansagarsuri Granth Prakashan Kendra
Publication Year
Total Pages1160
LanguageHindi, Sanskrit, English
ClassificationSmruti_Granth & Articles
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy