________________
destesistastestostestedtestosteslestastasestastasessostato basadestastosa dostalasta desestastastasestastastasesta testosteste deste sted asbestostestadestostesleste
L
e
ततः क्रमेण गुरुवरः पालीताणापुरी समागत्य तत्र बाबुजिनालये जिनमूर्तीः प्रतिष्ठापयद् दादाश्रीकल्याणसागर मूर्तिमपि तत्र देवकुलिकायां प्रत्यष्ठापयत् । तत्र पालीताणापुर्या च चातुर्मासं षट्सप्ततितमे संवत्सरेऽकरोत् । तत्र मुनिनीति-गर-दानसागरधर्मसागरांश्चाऽऽरांगोत्तराध्ययनसूत्रयो योगो
द्वहनमकारयत् । ततो पालीताणातो विहारं कृत्वा गुरुवरस्तालध्वजगिरिं स्पृष्ट्वा, गिरनातीर्थस्य यात्रां कृत्वा हालारदेशग्रामेषु धर्मप्रचारं कुर्वन् डबासंगग्रामे समागतः । तत्र नागडाग्रामस्य मोंघीबाईश्राविकायै गुरुवरेण दीक्षा दत्ता, मंगलश्रीरिति नाम स्थापितम् ।
. ततो गुरुवरो नवाग्रामे स्वापदेशेन संपन्ने नूतनजिनालये श्रीचन्द्रप्रभजिनादीनां मूर्तीः प्रत्यष्ठापयत् । तत्र दादाश्रोकल्याण सागरसूरीश्वरमूर्तिरपि गुरुणा प्रतिष्ठापिता । ततो जामनगरं समेत्य संघस्य विज्ञप्त्या सप्तसप्ततितमे संवत्सरे गुरुवरेण तत्र चातुर्मासं कृतम् । ततो गुरुवरो हालारदेशग्रामेषु विहृत्य, धर्मप्रचारं कृत्वा क्रमेण कच्छांजारनगरे समागतः । __ततः संघेन सह भद्रेश्वरतीर्थ गत्वा भावेन यात्रा कृता । ततो बृहदाशंबीयाग्रामे नवपदायुद्यापनं कर्तुं तत्रत्यक्षेमराजपुत्रगांगजितो विज्ञप्त्या गुरुणा तत्र समेत्योद्यापनं कारितम् । ततो मांडवीपुरीसंघविज्ञप्न्याऽष्टसप्ततितमे संवत्सरे मांडवीपुर्या' चातुर्मासं गुरुवरेण कृतम् । ततोऽबडाशाप्रदेशग्रामेषु विहृत्य धर्मप्रचारं कुर्वन् गुरुवरो मंजलग्रामे नवपदाद्युद्यापनं, कोटडीग्रामे च वर्षांतपउद्यापन कारयित्वा देवपुरग्रामे नूतनजिनालये प्रतिष्ठामकारयत् । ततः सायराग्रामे संघस्य विज्ञप्त्या नवसप्ततितमे संवत्सरे गुरुवरेण चातुर्मासं कृतम् ।
ततो विहृत्य संघस्य विज्ञप्त्या बृहद्लायजाग्रामे नूतनजिनालये महावीरस्वाम्यादिजिनप्रतिमानां प्रतिष्ठा गुरुवरेण कारिता । ततो रायणग्रामे नवपदादितपसामुद्यापनं कारितम् । ततो गुरुवरः क्रमेण डुमराग्रामे समागतः । तदा मुनिदानसागरो विनाज्ञां गतः । ततो गुरुवरेण संघस्य विज्ञप्त्या सुथरोतीर्थे चातुर्मासमशीतितमे वर्षे कृतम् । ततो ग्रामाद् ग्रामं विहरन् गुरुवरो जामनगरं समागत्य संघस्य विज्ञप्त्या तत्रैकाशीतितमे संवत्सरे चातुर्मासमकरोत् ।
ततो वैशाखमासे गुरुवराज्ञया कच्छलम्वाशंबीया ग्रामे मोहनसागरमुनिना महोत्सवेन तिम्र: श्राविका दीक्षिताः । तासां नामानि कच्छदेशस्य टुंडाग्रामस्य सोनबाईश्राविकायै शीतलश्रीरिति नाम दत्त, लघ्वाशंबीयाग्रामस्य भमीबाईश्राविकायै भक्तिश्रीरिति नाम दत्तं, लघ्वाशंबीयाग्रामस्य देवांबाईश्राविकाय दर्शनश्रीरिति नाम दत्तम् । ततो गुरुवराज्ञया मोहनसागरमुनिना कच्छजसापुरग्रामे सांधवग्रामवास्तव्यायै कुंवरबाईश्राविकायै तदात्मजायै च महोत्सवपूर्वकं दीक्षा प्रदत्ता, कुंवर
માં શ્રી આર્ય કલ્યાણ ગૌતમસ્મૃતિ ગ્રંથ
છે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org