________________
LO
J
estosteste sted debdododedostoso dedo deseessoostestostecostase stated to destedede dodecaddededossadesodastestostestostestadost stocked
मांडवीसंघेन कृतः । ततो नांगलपुरग्रामे तत्रत्याया देवकांबाईश्राविकाया मृगशिरकृष्णपंचम्यां दीक्षां कृत्वा तस्यै दोलतश्रीरिति नाम दत्तम् । ततो गुरुवरो रामाणीयाग्रामे तऋत्यकुमारिकायाः कंकुबाईश्राविकाया दीक्षां माधशुक्लपंचम्यां कृत्वा केसरप्रीरिति नाम स्थापितवान् । ततो भद्रश्वरतीर्थस्य यात्रां कृत्बा गुरुवरेण फाल्गुनशुक्लपंचम्यां नलीयाग्रामस्य नेणबाईश्राविकायै दीक्षां दावा न्यायश्रोरिति नाम दत्तम् । ततो गुरुवरो संघविज्ञप्त्या गढशीशाग्रामे समागत्य तत्रोद्यायनमकारयत् । दादाश्रीकल्याणसागरसूरीश्वरस्य च मूर्ति देवकुलिकायां प्रतिष्ठायितवान् ।
ततो गुरुवरेण संघस्य विज्ञप्त्या बाडाग्रामे समागत्य नवदीक्षितेभ्यो योगोद्वहन कारयित्वा द्वितीयवैशाखकृष्णकादश्यां बृहद्दीक्षा प्रदत्ता । भोजायग्रामस्य देवकांबाईश्राविकायै दीक्षां च दत्त्वा दीपश्रीरिति नाम प्रदत्तम् । ततो गुरुवरेण संघविज्ञप्त्या सुथरीग्रामे द्विसप्ततितमे संवत्सरे चातुर्मासं कृतम् । ततो विहारन् संघविज्ञप्त्या बाडाग्रामे गुरुवरेणोद्यापनं कारितं वर्षांतपपारणामहोत्सवश्च संपादितः । ततो गुरुवरो गोधराग्रामे समाययौ । तत्र बृहज्जिनालयस्य दक्षिणपश्चिमदिशि कृते लघुजिनालये जिनमूर्तिप्रतिष्ठां गवाक्षं च श्रीकल्याणसागरसूरिमूर्तिप्रतिष्ठां चाकारयत् । इयं प्रतिष्ठा बैरसिंहात्मजेन नागजिता स्वधनव्ययेन संपादिता । वैशाखशुक्लैकादश्यां चेयं प्रतिष्ठा जाता । ततो गुरुवरेण संघविज्ञप्त्या तेराग्रामे चातुर्मासं कृतम् । तत्रत्य-कुसंपश्च निवारितो, होरजित्पुत्र-रत्नसिंहस्य विधवया वेजबाईश्रेष्ठिन्या जिनालयस्तेरासंघस्य समर्पितस्त्रिसप्ततितमे वत्सरे तेराग्रामे चातुर्मासं संपूर्णीकृत्य संघविज्ञप्त्या गुरुवरेण भुजनगरे समागत्य तत्र स्तूपमंदिरे दादाश्रीकल्याणसागरसूरिमूर्तेः प्रतिष्ठा कारिता, माधकृष्णाष्टम्यामियं प्रतिष्ठा सजाता ।
ततः संघस्य विज्ञप्त्या चतुःसप्ततितमे संवत्सरे सुथरीतीर्थे चातुर्मास कृत्वा गुरुवरेण मेराउग्रामे समागत्य माघशुक्लपंचम्यां रायणग्रामस्य गंगाबाईश्राविकायै दीक्षां दत्वा सौभाग्यश्रीरिति नाम दत्तम् । डोणग्रामस्य लीलबाईश्राविकायै दीक्षां दत्त्वाऽमृतश्रीरितिनाम दत्तम् । ततो गुरुवरो पुनडोग्रामे गतस्तत्र लध्वाशंबीयाग्रामस्य मूलबाईश्राविकायै चैत्रकृष्णषष्ठयां दीक्षां दत्वा मेनाश्रीरिति नाम दत्तम् । ततो बृहद्लायजाग्रामे गुरुणा तत्रत्यायै राणबाईश्राविकायै दीक्षा वैशाखशुक्लतृतीयायां दत्ता ऋद्धिश्रीरिति नाम दत्तम् ।
ततो गोधराग्रामे संघस्य विज्ञप्त्या पंचसप्ततितमे संवत्सरे गुरुवरेण चातुर्मास कृतम् ।
કોઈ ના શ્રી આર્ય કયાણગૌતમસ્મૃતિગ્રંથો
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org