________________
ssbshsbfboobsbshs**********************boobsbshsfdfbfb*******bbbbbbbbbb
[४७]
क्रमणग्रंथो मुद्रापितोऽन्येपि ग्रंथा मुद्रापिता, सच्छायं सार्थकल्पसूत्रं च मुद्रायितुं दायितम् । ततो मुम्बापुर्या विहारं कृत्वा गुरुवरः सुरतभृगुकच्छ खंभातादि - नगरग्रामादिस्थानेषु विहरन् पालीताणा - पुरीं समागतः ।
तदा कच्छसुथरीतीर्थवास्तव्य - खियसिंहात्मजो खेतसिंह श्रेष्ठी पूर्वसंकेतेन संघ गृहीत्वा तत्र समागतः । तेन महामहोत्सवेन गुरुवरो नगरे प्रवेशितो, गुरुवरनिश्रायां च श्रीसिद्धाचलमहातीर्थस्य यात्रां कृत्वा तेन संघपतिना श्रेष्ठिना स्वजन्म सफलीकृतम् । ततस्तोर्थयात्रा स्वं धन्यं मन्यमानोगुयुवरः क्रमेण कच्छदेशे समागतोंऽजारपुरे नूतन दीक्षितानां योगोद्वहनपूर्वकं बृहददीक्षा कारितवान् । दीक्षामहोत्सवो बायडग्रामवासिना पूंजात्मजेन खेराजेन श्रेष्ठिना कृतः । ततो गुरुवरो भुजनगरे समायातः । संघेन च महोत्सवेन नगरं प्रवेशितः । संघेन च तत्र सप्ततितमे संवत्सरे चातुमसिं कारापितम् ।
तस्मिन् चातुर्मासे गुरुवरोपदेशेन दादाश्रीकल्याणसागरस्य स्तूपमंदिरस्य जीर्णोद्धारस्य कार्य शीघ्र कर्तु सन्धेन निर्णयः कृतः । ततो गुरुवरो मांडवीपुरीसन्घस्य विज्ञप्त्या मांडवीपुरीं समागतस्तत्र महोत्सव चाकारयत् । ततो कोटडाग्रामस्य मालसिंहात्मजेन कानजिचेष्ठिना स्वग्रामे नवपदोद्यापनकृते समागमनार्थे विज्ञप्तिः कृता । तां स्वीकृत्य गुरुवरः क्रमे कोटडाग्रामं समागतः । सन्धेन च महोत्सवेन ग्रामं प्रवेशितः । तत्र उद्यापनमहोत्सवे कानजिद्धनाढयेन द्विचत्वारिशद्ग्रामेभ्यो जैनान समाकार्य ज्ञातिमेलकः कारितः । तत्रत्यधनबाईश्राविकायै च मुनिश्रीनीति सागरहस्तेन दीक्षा प्रदापिता, तस्याश्च धनश्रीरिति नाम स्थापितद् ।
ततो विहारं कृत्वा ग्रामादग्रामं विहरता गुरुवरेण सन्धस्य साग्रहविज्ञप्त्या मांडवीपुर्या एकसप्ततितमे वर्षे चातुर्मास कृतम् । ततो तत्र दीक्षामहोत्सवपूर्वकं गुरुवरेण त्रयः श्रावकास्तिस्रश्च श्राविका दीक्षिता । तेषां तासां च नामानि - कच्छवागडसूइग्रामस्य कानजितः कर्पूरसागर इति नाम कृत्वा तं स्वशिष्यं चकार; कोटडावासिनो घेलाभाईश्रावकस्य गुलाब सागर इति नाम कृत्वा तं मुनिं दानसागर शिष्यं तं चकार; लघुलायजावासिनः शिवजितः सुमतिसागर इति नाम कृत्वा तं मुनिं दयासागरस्य शिष्यं चकारः गोधराग्रामवासिन्याः कुंवरबाईश्राविकायाः कर्पूरश्रीरिति नाम कृतम्, लघुनडीया ग्रामस्य रत्नबाई श्राविकाया रूपश्रीरिति नाम कृतम् ; हालारदेशस्य डबासन्ग - ग्रामवासिन्या मोंघीबाईश्राविकाया मुक्तिश्रीरिति नाम कृतम् ; मृगशिरशुक्लैकादश्यामयं दीक्षामहो वो
શ્રી આર્ય કલ્યાણ ગૌતમ સ્મૃતિ ગ્રંથ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org