________________
[४९] unschedeobetese
tasashsashdesesashshobsesedesesesedseshshobsfasbodesabtosbobsesesesesbsesedesedesesesedesbseshdodesbsbidesbshsbitasbshshob
मुमुक्षुभ्यो दीक्षा दत्ता, कच्छकोटडावासिनो देवजितो दानसागर; कच्छसाभराइवासिनो मणसिंहस्य मोहनसागर, उनडोठवासिन उमरसिंह उमेदसागर इति तेषां त्रयाणां नामानि स्थापितानि । . तस्मिन् दीक्षामहोत्सवे तत्रत्यै बबुभिः श्रेष्ठिभिरागमनं कृतं, पट्षष्टितमे संवत्सरे माघशुक्लत्रयोदश्यां दीक्षा: संजाताः ।
___ ततो सपरिवारेण गुरुत्वरेण विहारः कृतः । चैत्र कृष्णपंचमीदिने मुंबापुर्या घाटकोपरोपनगरे गुरुवरः समागतः संघेन महामहोत्सवेन प्रवेशितः । गुरुवरेण प्रतिदिनं धर्मोपदेशः प्रारब्धो, योगोद्वहनं च कारयित्वा नूतनमुनिभ्यो बृहद्दीक्षा प्रदत्ता । मोहमयोस्थेन कच्छी-वीशा-ओसवाल-ज्ञाति महाजनेन कच्छ।-दशा-ओशवालमहाजनेन च विज्ञप्तिं कृत्वा मुम्बापुर्या भातबजार-खारेकबजारस्थयो यो जिनप्रासादयोस्तीर्थभूतयोरादिनाथाऽनन्तनाथयोर्यात्रां कारयित्वा गुरुवरस्य पालागलीमध्ये स्थितस्य कच्छीवीशाओशवालज्ञातिमहाजनस्य वाटिकोपाश्रये भव्यातिभव्यं चातुर्मासं कारितम् । सप्तषष्टितमसंवत्सरस्य तच्चातुर्मासं पूर्णीकृत्य कच्छजखौवासिनो वर्धमानश्रेष्ठिपुत्रस्य जेठाभाईश्रेष्ठिनो विज्ञप्त्या गुरुवरः परेल-लालबागमध्ये चातुर्मासपरिवर्तनमकरोत् । ततः कच्छीदशाओशवालज्ञातिमहाजनस्य विज्ञप्त्या तज्ज्ञातिवाटिकायां समागत्य स्थितः ।
अथ तत्र गुरुवरस्य समीपे कच्छदेशीयायाः श्राविका दीक्षा ग्रहीतु समागता महामहोत्सवेन गुरुवरेण सप्तषष्टितमसंवत्सरस्य माधमासस्य शुक्लदशम्यां मुनिश्रीनीतिसागरहस्तेन दीक्षा दायिता । तासां नामानि, वराडीया ग्रामस्य मांकबाईश्राविकाया मणिश्रीर्जखौग्रामस्य देमुबाईश्राविकाया देवश्री लध्वाशंबीयाग्रामस्य पद्माबाईश्राविकायाः पद्मश्रीः सणोसराग्रामस्य लीलबाईश्राविकाया आणंदश्रीः कोटडावासिन्याः खीमबाईश्राविकाया जडावश्री र्डोणग्रामस्य नेणबाईश्राविकाया नेमश्रीरिति नामानि स्थापितानि ।
____ अष्टषष्टितरे संवत्सरे गुरुवरेण मुम्बापुर्यामेव चातुर्मासं कृतम् । तत माघशुक्लैकादश्यां कच्छ बायडवामस्य धनजिते, कच्छनांगलपुरस्य देवांबाईश्राविकायै च भांडुपोपनगरे गुरुवरेण दीक्षा दत्ता । धर्मजितं स्वशिष्यनीतिसागरस्य शिष्यं कृत्वा तस्मै धर्मसागर इति नाम दत्तम् । नूतनसाध्व्यै च दानश्री नाम दत्तम् । ततो गुरुवरेण विविधोपनगरेषु विहृत्य, धर्मप्रचारं कृत्वा खडकज्ञातिवाटिकायां चातुर्मासं कृतम् । एकोनसप्ततितमे संवत्सरे चातुर्मास कृत्वा साधुश्रावकाणां सार्थपंचप्रति
7) હમ શીઆર્ય કલ્યાણગૌતમસ્મૃતિગ્રંથ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org