________________
कककककककककककककक [४५]
दत्तम्; गढशीशाग्रामस्य मालबाईनाम्न्यै श्राविकायै मगनश्री नम दत्तं भीसराग्रामस्य सुन्दरबाईनान्यै श्राविका शिवकुंवरश्री नम दत्तं, डुमराग्रामस्य हांसबाइनान्यै श्राविकायै हर्षश्री नम दतम् । दीक्षामहोत्सव घेला भाईश्रेष्ठिनो द्रव्येण तत्रव्यसंघेन कृतः ।
ततो मांडलग्रामस्य संघस्य चातुर्मासकृते साग्रहा विज्ञप्तिः संजाता । तां स्वीकृत्य सपरिवारेण गुरुवरेण पंचषष्टितमे संवत्सरे मांडलग्रामे चातुर्मासं कृतम् । ततो गुरुवरः श्री शरीयातीर्थस्यै यात्राकरणार्थं गन्तु ं प्रवृत्तो मार्गे बहुतीर्थानां यात्रां कुर्वन्, तारंगातीर्थयात्रां कृत्वा उनडीग्रामे समागतः । तत्र केशरीयातीर्थे गंतु प्रवृत्तस्य संघेन समागतस्य संघपते विज्ञप्त्या गुरुवरः संघेन सह चलितः । क्रमेण पोषशुक्लाष्टम्यां केशरीयातोर्थे समागत्य तीर्थयात्रां कृतवान् ।
तत उदयपुर - राणकपुर - पंचतीर्थी - शिवगंजाऽर्बुद तीर्थादिनां यात्रां कृत्वा गुरुवरोऽमदावाद - महानगरे समागतः । तत्र श्रीशान्तिनाथपोलमध्ये स्थितांचलगच्छस्योपाश्रये स्थातुमददानान् श्रावकान् शिक्षयितुं गुरुवरेण महोमयीतः श्रावकाः समाकारितास्ततः सर्वमपि सुलभं संजातम् । मोहमय्यां चातुर्मासं कर्तुं विज्ञप्तिः समागता । तस्माद् गुरुवरेण कनकश्रीमुख्याः साध्यो मोहमय्यां प्रेषिताः ।
अथ तत्र कच्छकोटडीग्रामस्य नागजीभाईनामा श्रावको दीक्षाग्रहणार्थं समागतः । परं जनकाज्ञया विना दीक्षा गुरुवरेण न दत्ता । ततस्तेन श्रावकेण स्वयं साधुवेश : परिहितो गुरुसमोपे च समागत्य जनकस्य दीक्षासंमतिः पत्रेण समानायिता । ततस्तं सार्द्धं नीत्वा गुरुवरेण विहारः कृतः; सरखेजग्रामे च समागत्य तत्र पंचषष्टितमे संवत्सरे वैशाख शुक्ल पंचमीदिने तस्मै दीक्षामदात्; नीतिसागर इति नाम चायच्छत् स्वशिष्यं च कृतवान् । ततः क्रमेण पालीताणापुर्या समागत्य तत्र योगोद्वहनपूर्वकं नीतिसागरमुनये गुरुवरो बृहद् दीक्षामदात् । पालीताणामध्ये च षट्षष्टितमे संवत्सरे चातुर्मासमकरोत् ।
अथ गुरुवरः सपरिवारोऽमदावादनामानि महानगरे समागत्य शांतिनाथपोलमध्येऽचलगच्छस्योपाश्रये स्थितस्त्यागिवरस्य प्रभावः प्रासरत् । गुरुवरस्य समीपे त्रयो दीक्षार्थिनो मुमुक्षवोऽध्ययनं कुर्वन्ति तेषां दीक्षा महोत्सवो मुंबापुरीतः समागत्य पुनशीपुत्रेण लालजी श्रेष्ठिना, माणकपुत्रेण घेला भाईश्रेष्ठिना च कृतो, दीक्षादिवसे मुंबापुरीतः बहवः श्रावकाः सपरिवाराः समागता, गुरुवरेण
શ્રી આર્ય કલ્યાણ ગૌતમ સ્મૃતિગ્રંથ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org