________________
[४४]
स्वीकृत्य गुरुवरेण प्रमोदसागरो मुनिः समुदायाद् बहिष्कृतः, सर्वान् संघान् प्रति च तद् ज्ञापितम् ।
ततो गुरुवरेण वराडीयाग्रामे संघस्य विज्ञप्त्या त्रिषष्टितमे संवत्सरे चातुर्मासं कृतम् । तस्मिन् चातुर्मासे माणकात्मजः घेलाभाईश्रावकः, वीरमात्मजः कानजीभाइ श्रावकश्च ताभ्याम् भूरि धनव्ययः कृतो, महामहोत्सवः कृतस्तस्मिन् महोत्सवे निमन्त्रणं प्रेष्य बबुभ्यो ग्रामेश्यः श्रवाकसंघा आकारिताः सर्वेषां च भूरि भक्तिः कृता । चातुर्मासे पूर्णे गुरुवरो विहारं कुर्वन् गढशीशाग्रामे समागतः । तत्रत्य टोकरसिंहात्मजेन देवराज श्रेष्ठना दुर्गापुर वास्तव्येन वाघजीपुत्रेणाऽऽशुभाईश्रेष्ठिना च श्रीसमेतशिखर-महातीर्थस्य यात्रां कर्तुं यदीच्छा वर्तते तर्हि सर्वो धनव्यय आवाभ्यां करणीयो भवान् चलतु इति गुरुवरं प्रति कथितम् । गुरुवरेण प्रोक्तम्-तत्र गमने साधूनामारंभदोषो लगति, संघ विना स्वतंत्रः साधूनां विहारस्तेन न युक्तः । अत्रैवाऽऽत्मसाधनां करिष्याम इति कथयित्वा गुरुवरः कच्छदेश एव विहरन् सुथरीग्रामे समागतः । तत्र नूतनसाध्वीविवेकश्रियो योगं कारयित्वा बृहद् दीक्षा च तस्यै गुरुणा दत्ता ।
sheshash.shasheshachchestesteststastastashacha shooteofasteststechchachch
ततः संघस्य विज्ञप्त्या भुजनगरे समागत्य चतुःषष्टितमे संवत्सरे त चातुर्मासं कृत्वा गुरुवरो ऽन्यत्र विजहार । साध्वीश्री हेतश्रिया स्वगुरुण्या चन्दनश्रिय आचारपालने शिथिलता समागता - ऽस्ति स्वसंसारिंसंबंधिनां परिचय विशेषेण करोतीति गुरुवरस्य प्रोक्तम् । गुरुणा साधुसाध्वीनां कृते केचिन्नियमाः कृताः । ते नियमा चंदनश्रिया न स्वीकृतास्तेन गुरुवरेण साध्वीसमुदायाच्चंद श्री सशिष्या दूरीकृता ।
fast tactastastastastastastech
ततो गुरुवरो विहारं कुर्वन् वराडीयाग्रामे समागतः । तत्रत्येन माणकात्मजेन घेला भाईश्रेष्ठिना मुंबइया समागन्तुं गुरुवरस्य विज्ञप्तिः कृता, तां स्वीकृत्य सपरिवारेण गुरुणा मोहमयीं पुरीं गन्तुं विहारः कृतः । वागडप्रदेशे आधोइग्रामे समागत्य गुरुवरेण चैत्रलुक्लपक्षे नवपदाराधना तत्र कृता, कारिता च ।
ततो विहारं कृत्वा क्रमेण गुरुवरो राधनपुरे समागतः । तत्राऽचलगच्छीय-हीरसागरवीथी वर्तते । तस्यामचलगच्छस्य बृहदुपाश्रये गुरुवरः स्थित्वा तत्रव्यजिनालयानां दर्शनं कृत्वा तत्रत्यसंघस्य चातुर्मासविज्ञप्तिमस्वीकृत्य, श्रीशंखेश्वरतीर्थे समागत्य, तीर्थयात्रां कृत्वा जन्म सफलीचकार । तत्र च चतरत्रः श्राविका गुरुवरेण दीक्षिता । भुजनगरस्य वेजवाईनाम्न्यै श्राविकायै वल्लभश्री नम
શ્રી આર્ય કલ્યાણૌતમ સ્મૃતિગ્રંથ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org