________________
destrdedesbdesdedesterdeshorobodesdasebedededesesadfasdesiseseshdbdosbshshobobdesesedesesebededesbhsbsechobshstasbsedesibsbsesed
चतस्रः श्राविका दीक्षिता साव्यश्च कृतास्तलवाणावास्तव्यारत्नबाई नाम्न्याः श्राविकाया नाम तिलकश्रीः स्थापितं, बृहदाशंबीयाग्रामवास्तव्यानां जेतबाई-पद्माबाई-वेलबाई-नाम्नीनां श्राविकाणां क्रमेण जडावश्रीः पद्मश्रीविनयश्री चेति नामानि स्थापितानि । ततो गुरुवरो लध्वाशंबीयाग्रामे समागत्य तत्रत्यसंधेन कृते दीक्षामहोत्सवे तत्रत्यायै लाधीबाईश्राविकायै वैशाखशुक्लाष्टमीदिने दीक्षा दत्त्वा लाभश्रीरिति नाम ददौ ।
ततो जखौग्रामस्य श्रेष्टिन्या पूजाबाईश्राविकाया जखौग्रामे चातुर्मासकरणार्थं विज्ञप्तिः समागता । तां स्वीकृत्य सपरिवारो गुरुवरो जखौग्रामे समागतः । तत्रत्य संघेन महोत्सवेन प्रवेशितो भव्यरीत्या चातुर्मासं च कारितः । ततो गुरुवरो जसापुरे, नलीनपुरे, तेरापुरे च समागत्य धर्मप्रचारं च कृत्वा जिनेन्द्रसागर सूरिं च मिलित्वा क्रमेण भुजनगरे सपरिवारः समागतः, संघेन च महोत्सवेन प्रवेशितो मासं यावद् गुरुस्तत्र पदेशं ददन् स्थितः । ततः गुरुवरः क्रमेण पत्रीग्रामे समा. गतः । तत्र नवपदोधापनं कारयामास, जामनगरवास्तव्या जीवीबाईनाम्नी श्राविका गुरुवरेण दीक्षिता जमनाश्रीश्च नाम दत्तम् ।
डोणग्रामे भोजायग्रामवास्तव्या खेतवाईश्राविका गुरुणा दीक्षिता खतिश्रीश्च नाम दत्तम् । ततः संघस्य विज्ञप्त्या सपरिवारो गुरुवरो भुजनगरे समागतः । तत्र च मुनिदयासागराय नूतनसाध्वीभ्यश्च योगोद्वहन कारथित्वा बृहद्दीक्षां ददौ । भुजनगरे कषष्टितमे संवत्सरे चातुर्मासमकरोत् । ततो विहारं कृत्वा गुरोवरो भोजायग्रामे समागत्य तत्रमहोत्सवपूर्वकं बृहद्रतडीयाग्रामवास्तव्यायै कमोबाईश्राविकाथै दीक्षामदात् कस्तुर श्री म च ददौ । ततो गुरुवरो वराडियाग्रामे समागतः । तत्रत्यसंघस्य सुथरीसंघस्य च चातुर्मास कृते विज्ञप्तिः संजाता, गुरुवेरेण सुथरीग्रामे चातुर्मासं कर्तुं विज्ञप्तिः स्वीकृता । सुथरीग्रामे समागत्य, संघसत्कारेण ग्रामप्रवेशं च कृत्वा, द्विषष्ठितमे वर्षे चातुर्मासं च कृतम् ।
ततो विहारं कृत्वा बृहद्वरंडीग्रामस्य जिनालयस्य प्रतिष्ठाप्रसंगे समागतेन गुरुणा प्रतिष्ठा कारिता । कोटडोग्रामस्य च वेलबाईनाम्न्यै श्राविकायै च दीक्षां दत्वा तस्या विवेकश्रीरिति नाम स्थापितम् । ततो ग्रानाद् ग्रामं विहरता गुरुवरेण संधस्य विज्ञप्त्या वराडीया ग्रामे चातुर्मासं कृतम् । गुरुवरस्त्रिषष्टितमस्य संवत्सरस्थ चातुर्मासं वराडीयाग्रामे कृत्वा प्रामाद्ग्रामं विहरन्, धर्मप्रचार कुर्वन् शेरडीग्रामे समागतः । तत्र प्रमोदसागरस्य विपरीतां प्रवृत्तिं श्रुत्वा, मांडवीसंघस्य विज्ञप्ति
માં શ્રી આર્ય કયાોતમ સ્મૃતિ ગ્રંથ
છે
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org