________________
1%
dodastaseste destustestatastastasestestostestade destacada dos astacadestastedade dades desadostadostastastatestatasestedtestostestadastadostastastasestas
गुरुवरेण ताभ्यस्तिसृभ्यो दीक्षा दत्ता । कपाया ग्राम वास्तव्या गंगाबाईनाम्नी श्राविका नाम्ना गुलाबश्रीः कृताः दुर्गापुर वास्तव्या कुंवरबाईश्राविका नाम्ना कुशलश्रीः कृता; भोजायवास्तव्या गंगाबाई श्राविका च नाम्न ज्ञानश्रीः कृता । गुरुवरण षट्पंचाशत्तमे संवत्सरे लाभं ज्ञात्वा पालीताणापुरे चातुर्मासं कृतम् । ततस्तत्रैव कच्छसांयराग्राम वास्तव्या हीरबाईश्राविका महामहोत्सवपूर्वकं दीक्षिता, तस्या हेतश्रीनाम स्थापितम् , फाल्गुन शुक्लषष्ठी दिन इयं दीक्षा संजाता ।
ततो गुर्जरदेशस्य मांडलग्रामस्य संधेन चातुर्मासस्य विज्ञप्तिः कृता । तां स्वीकृत्य गुरुवरेण विहारं कृत्वा मांडलग्रामे समागत्य सप्तपंचाशत्तमे वर्षे तत्र चातुर्मासं कृतम् । ततो विहारं कृत्वा गुर्जरदेशस्थमतीर्थानां मरुभूमिस्थ तीर्थानां चोप्रविहारेण यात्राः कृत्वा श्रीशंखेश्वरपार्श्वनाथतीर्थयात्रां च कृत्वा क्रमेण जामनगरं गुरुवरः सपरिवारः समागतः । तत्राऽमूर्तिपूजकस्य स्थानकवासीत्यपरनाम्नः समुदायस्यैकः साधुर्मुखपट्टिकां मुखाद् उतार्य गुरुवरस्य श्रीगौतमसागरमुनिवरस्य पार्श्वे समागतः । तस्य भावनां ज्ञात्वा गुरुवरेण दीक्षाक्रियां कारयित्वा, स्वशिष्यं कृत्वा तस्य दयासा गरेति नाम स्थापितम् । जामनमरसंघस्य विज्ञप्त्या गुरुवरेणाऽष्टपंचाशत्तमे संवत्सरे तत्र पुरे चातुर्मासं कृतम् ।
तदनन्तरं गुरुवर हालारदेशस्य ग्रामेषु विहृत्य धर्मप्रचारमकरोत् । तेन धर्मप्रचारेण मिथ्यास्विनः संजातान श्रावकान् पुनः जैनधर्मे स्थापितवान् । तस्मिन् प्रदेशे तत्रत्य नवागामवास्तव्याया सोनबाई श्राविकाया दीक्षा डबासंधग्रामसंधस्य विज्ञप्त्या महामहोत्सवेन गुरुवरेण संपादिता, सुमतिश्रीरिति नाम स्थापितम् । तस्मिन् महोत्सवे हालारदेशस्य बहूनां ग्रामाणां श्रावकश्राविकाः समागताः । ते सर्वे गुरुवरोपदेशेन जैन धर्म प्राप्ताः सुदृढाश्च संजाताः । इयं दीक्षा वैशाखशुक्लपंचमीदिने संजाता । ततो हालारदेशे भूरि धर्मप्रचारं कुर्वन् , गुरुवरेण संघस्य विज्ञ त्या बृहत् खावडीग्रामे चातुर्मासं कृतम् । ततो हालारदेशे भूरि धर्मप्रचारं कृत्वा, लोकान् जैनधर्मे स्थिरीकृत्य कच्छदेशं प्रति विहारं कृत्वा श्रीभद्रेश्वरजैनतीर्थे फाल्गुनशुक्लपंचम्पां तत्तोर्थयात्रामेलकासंगे समागत्य, भावेन तीर्थयात्रां कृत्वा गुरुवरः स्वं धन्यममन्यत ।
ततो विहारं कृत्वा मुद्रानगरं समागतो गुरुवरो बृहदाशंबीयासंघेन दीक्षाप्रदानकृते विज्ञप्तः । तेषां विज्ञप्ति स्वीकृत्य गुरुवरो बृहदाशंबीयाग्रामे समागतः । संघेन महोत्सवेन ग्रामप्रवेशः कारितो, दीक्षामहोत्सवश्व प्रवृत्तः । तस्मिन् दोक्षामहोत्सवे गुरुवरेण षष्टि मे संवत्सरे चैत्र कृष्णाष्टम्यां
-
-
છે. શ્રઆર્ય કયાઘગોમટ્યૂળિથી
NATAAS
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org