________________
Este testostestadostastastostadastasadadestastastestodestado de todas estastastestastosteste destestostestestostadasta dadadadadosastostado dastadostastasested?
कारयित्वा नूतनदीक्षिताभ्यो बहद् दीक्षा प्रदत्ता, संघेन महोत्सवः कृतः । ततस्तत्रयसंघविज्ञप्त्या सपरिवारेण गुरुवरेण तत्र पुरे चातुर्मासं कृतम् ।
ततो नारायणपुरनामसंघस्य नूतन-जिनालय-प्रतिष्ठा-प्रसंगे समागमनार्थ विज्ञप्तिः समागता, तां स्वीकृत्य सपरिवारों गुरुवरस्तत्र समागतः, प्रतिष्ठामहोत्सवेन प्रतिष्ठा जिनप्रतिमानां कृता । तस्मिन्महोत्सवे सांधाणग्रामवास्तव्यायाः सधवा-याश्चांपुबाई नाम्न्याः श्राविकाया गुरुवरहस्तेन दीक्षा संजाता, चंदनश्रीश्च नाम स्थापितम् । ततो गुरुवरः सपरिवारो मांडवीपुरे तत्रत्यसंघस्य विज्ञप्त्या समागतस्तत्र संघेन दीक्षामहोत्सवः कृतः । तस्मिन् दीक्षामहोत्सवे गुरुवरेण द्विपंचाशत्तमे संवत्सरे माघशुक्लपंचमीशुभदिवसे तिसृभ्यो श्राविकाभ्यो दीक्षा प्रदत्ता । गोधरावास्तव्या जेतबाई नाम्न्या; श्राविका पा जतनश्रीः, शेरडीवास्तव्या लीलबाई-नाम्न्याः श्राविकाया लब्धिश्रीस्तथा गोधरावास्तव्या-लीलबाईनाम्न्याः श्राविकाया लावण्यश्रीरिति नामानि च स्थापितानि ।
अथ गुरुवरः सपरिवारः श्रावकश्राविकाणां बहुपरिवारपरिवृत्तः सन् छ'रीपालकसंघयात्रया श्री भद्रेश्वरतीर्थे समागतः । तत्र तीर्थाधिपति श्रीमहावीरपरमात्मानं प्रणम्य स्वं धन्यं चकार । तत्र तीर्थे नागलपुर वास्तव्याय पूजाभाईनामकाय स्वयं साधुवेशपरिधापकाय श्रावकाय संघस्य विज्ञप्त्या गुरुवरेण दीक्षा दत्ता, प्रमोदसागरो नाम स्थापितम् , स्वशिष्यस्य गुणसागरस्य च शिष्यः कृतः ।
ततो गुरुवरः क्रमेण मुद्रानगरे समागतः । तत्र योगोद्वहनं कारयित्वा संघकृतमहोत्सवपूर्वक गुरुवरेण नूतनसाधुसाधीभ्यो बृहद् दीक्षा प्रदत्ता । संघस्य विज्ञप्त्या च तत्रैव मुद्रानगरे सपरिवारेण गुरुणा चातुर्मासं कृतम् । एवं त्रिपंचाशत्तमसंवत्सरे चातुर्मासं कृत्वा मुद्रानगराद् विहारं कृत्वा ग्रामाद् ग्राम विहरन् , धर्मोपदेशान् ददन् लध्वाशंबीया संघस्य विज्ञप्त्या तस्मिन् ग्रामे चतुःपंचाशत्तमे संवत्सरे गुरुवरेण चातुर्मासं कृतम् ।
ततो गुरुवरेण श्रीसिद्धगिरिमहातीर्थस्य यात्रामनोरथं कृत्वा तत्र गंतुं विहारः कृतः । क्रमेण गुरुवरश्चतुः पंचाशत्तमो संवत् परे चैत्रमासस्य शुक्लषष्ठयां सिद्धगिरि प्राप्तो, द्वितीयदिने तस्य महातीर्थस्य यात्रां कृत्वा स्वजन्म सफली चकार । ततो यात्रां कुर्वता गुरुवरेण पालीताणापुरे पंच-पंचाशत्तमे संवत्सरे चातुर्मासं कृतम् । चातुर्मासानंतरं गुरुस्तत्र स्थितस्तत्र कच्छदेशतो दीक्षाग्रहणार्थ तिस्रः श्राविकाः समागताः । पंचपंचाशत्तमसंवत्सरस्य फाल्गुन शुक्लत्रयोदश्यां महामहोत्सवपूर्वक
મી શ્રી આર્ય કયાદાગૌતમ સ્મૃતિગ્રંથો
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org