________________
V
SUय OM/ (aloooooo
परमपूज्य अचळगच्छाधिपतिराचार्यदेव श्रीगौतमसागरसूरीश्वराणां संक्षिप्तं जीवनचरित्रम्
HTRAN
- तत्पट्टधर श्रीगुणसागरसूरीश्वरजी म. सा. मरुभूमिमध्ये श्रीपाली नाम नगरमस्ति । तत्र श्रीमालीब्राह्मणज्ञात्यां धीरमल्लनामा ब्राह्मणवरः परिवसति स्म । तस्य विप्रवरस्य क्षेमलदेवीनाम्नी शीलादिगुणालंकृतशरीरा सौंदर्यवतो लावण्यवती च ब्राह्मणी पत्नी बभूव । विक्रमस्यैकोनविंशतिशताधिकविंशतिमेवर्षे क्षेमलदेवी तेजस्विनं पुत्रमजीजनत् । तस्य पुत्रस्य गुलाबमल्ल इति नाम दत्तम् । स गुलाबमल्लः क्रमेण पंचवार्षिकः संजातः । तदा भयंकरो दुष्कालः संजातः ।।
तस्मिन्दुर्भिक्षे मरुभूम्यां जनाः स्वपरिवारपालनेप्यसमर्था अभवन् ; स्वपुत्रान् रक्षार्थ योगिभ्यो यतिभ्यो ददाना बभुवुः । अस्मिन्समये कच्छदेशतो देवसागराभयचंद्र-वीरचंद्र-नानचंद्रेतिनामानश्चत्वारो जैनयतयो मरुभूभ्यां समागताः । तत्र पालीनगरे समीपस्थग्रामेषु च भ्रमन्तः स्वशिष्यकरणार्थ बालकान् गवेषितु' प्रवृत्ताः। प्रयत्नेन तैरष्टौ बालाः प्राप्ताः ।
पालीनगरे घीरमल्लाभिधो विप्रवरो देवसागरस्य यतेर्मित्रमभवत् । तेन विप्रेण धीरमल्लेन स्वपत्नी-क्षेमलदेवी-सहितेन स्वकीयो गुलाबमल्लाभिधो वों पुत्रो देवसागराय यतये समर्पितः कथितं चाऽऽवयोरयमतीव वल्लभः पुत्रो युष्माकं शिष्यः प्रशिष्यो वा कर्नव्योऽन्येभ्यः न प्रदातव्यः । देवसागरयतिना तत्स्वीकृतम् । गुलाबमल्लस्य देहलक्षणानि वीक्ष्य सानन्देन देवसागरेण चिन्तितम्अयं बाल एभिर्लक्षणैर्महान् योगीश्वरो वर्यस्तपस्वो श्रेष्ठसंयमी, उत्तम चारित्रशाभितसाधु-साध्व:परिवारस्य निर्माता पालकश्च भविष्यति, शिथिलाचार निवारको जैनशासनस्य प्रभावको भविष्यति च । ततस्ते चत्वारो यतयः सबालका मरुभूमितः कच्छदेशे समागताः । तत्र बिदडाभिधग्रामे तै यतिभि विभागं कृत्वा बाला गृहीताः । स्वस्वमिष्टं स्थानं गताः। देवसागरो यतिरेकं भागेन गृहीतं कल्याणचंदाभिधं बालं गुलाबमल्लेन बालेन सह गृहीत्वा लघुमाशंबियाभिधं ग्राम समागतः। तस्मिन् ग्रामे सुश्रावकेषु मुख्यः खीयराजपुत्रो नथुनामा द्वादशव्रतधारी सुश्रावक आसीत् । सोऽन्ये च श्रावका: श्राविकाश्च देवसागरयतिं बालद्वययुक्रं दृष्ट्वा सानन्दा बभूवुः। तयोः बालयोः पालन पोषणं च कर्तुं सोचमा अभवन् । देवसागरयते: स्वरूपसागरनामा यतिर्मुख्यशिष्य आसीत् । सोऽपि
શ્રી આર્ય કયાણ ગૌતમ સ્મૃતિગ્રંથ) ADE
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org