________________
[38] boedbsesbstestedasbodestroesdedeseshoesedesesdesesedesesedededesesedesesesesesesedeoledesdededesesedeodesledeodeshseseddedesesedest
भुजनगरात्कार्य कृत्वा लध्वाशंबीयाग्राम समागतो द्वौ बालौ च दृष्ट्वा हर्पितो, देवसागरेण यातना तो दो स्वरूपसागराय यतये शिष्यत्वेन समर्पितौ । कदाचिद् देवसागरो यतिस्तौ द्वौ बालप्रशिष्यौ सार्द्ध नीत्वा कच्छदेशस्थतीर्थानां यात्रा कर्तुं निगतः । कच्छस्थ-भद्रेश्वरतर्थस्य यात्रां कृत्वा क्रमेण . कच्छदेशस्थाऽबडासाऽभिधप्रदेशे स्थित सुथरोनामनि ग्रामे प्रसिद्धप्रगटप्रभाविश्रीघृतकल्लोलपार्श्वनाथतीर्थस्य भावेन यात्रां कृत्वाऽस्य तीर्थस्य पंचतीर्थीत्वेन प्रसिद्धानां सांधाण-कोठारा-जखौ-नलीया-- तेराऽभिधेषु पंचसु ग्रामेषु स्थितानां श्री शत्रुञ्जयतीर्थटुं कसदृश-उन्नत-विशालऽनेकतीर्थभूतजिनालयतीर्थानां भावेन यात्रां कृत्वा तेराभिधग्रामे स्थितताराचंद्रयति समापे समागतः । द्वौ बालप्रशिष्यो दृष्ट्वा ताराचंद्रेण यतिना देवसागरयतेः प्रोक्तम् – एतो द्वौ बालशिष्यो मह्यं देहि । देवसागरेण यतिना प्रोक्तम् - एतो बालशिष्यौ तुभ्यं दातुं न शक्नोमि परमन्यान् बालान् मरुभूमित आनं.य दास्यामि, युष्माकमेतत्कार्य करिष्यामि । ताराचंद्रयतिना प्रोक्तम् - तथा कुरुत । तत्स्वीकृत्य परोपकारपरायणो देवसागरयतिस्तौ बालशिष्यौ लवाशंबीयाग्रामे स्वशिष्यस्वरूपसागराय समर्प्य तत्रत्य-श्रावकानां च कथयित्वा ताराचन्द्रयतेर्लब्धसामग्रीकः स मरुभूमि प्रति गंतुं प्रवृतः। अपशुकनानि संजातानि । तदा तत्रत्यश्रावकसंधेन प्रोक्तम् - इमं मुहूर्त त्यक्त्वाऽन्यमुहूर्त गृहीत्वा गच्छत । तन्निशम्याऽपि भवितव्यतया देवसागरो यतिः परकार्यार्थ मरुभूम्यां गतः । तत्र च ज्वरेण परलोकं गतः । तद्वृत्तान्तं ज्ञ त्वा स्वरुपसागरः यतिः सशोकः संजातः ।
___ ततः शोकं निवार्य स यति लिशिष्यो पालनपूर्वकं शिक्षयामास । गुलाबमल्लस्य ज्ञानचन्द्र हत द्वितीयं नाम समभवत् । तयोबालयोर्मध्ये गुलाबमल्लो विनीतोऽभवत् कल्याणचन्द्रश्चाविनीतः संज तः । गुरुः स्वरुपसागरस्तु तयोः सदृशं पालनमध्ययनं च कारयति । भुजनगरे लवाशंवयाग्रामे विशेष तिष्ठति स्म । अस्मिन् अष्टाविंशत्यधिकै कोनविंशतिशततमे विक्रर.सं (त्सरेऽचलगच्छाधिपतिः यतपतिः श्रीरत्नसागरसूरिः सुथरीतोर्थे परलोकं गतः । ततो वेल जीनामधा: श्रावको यतिः संजातः । तस्मिन्नेव वर्षे स यतिपति र्जातः । तस्याऽचलगच्छाधिपस्य श्रोविवेकसागरसूरि माऽऽसीत् । श्रीविवेकसागर सूरेः श्रीशत्रुञ्जयमहातीर्थस्य यात्राकरणस्य भावना संजाता । ततस्तेन सूरिणा कच्छदेशस्थैः सर्वेयोतभिः सह प्रयाणं कृत्वा श्रीसिद्धगिरिमहातीर्थ गत्वा तस्य तीर्थस्य यात्रा कृता ।
श्रीस्वरूपसागरयतिरपि सबालशिष्यो यतिसमुदायेन सह समागत आसीत् । तेना.पे श्रीसिद्ध. गिरेर्यात्रां विधायाऽऽनन्दोऽनुभूतः ततो यतिसमुदायेन सह स विवेकसागरसूतिः पावकगिरेर्यात्रां
રાઈ એ આર્ય કયાહાગૌતમસ્મૃતિગ્રંથ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org