________________
13
.eddictartedeshetatoesboedesbfoesbseterdasteobestoferofedecesscddedecesterdestorededesheeshobhsboesbdeotestedeobohpootodeshotsta
तत्र रायशीशाह रायशीशाह द्वारा संभृतानां ५५१ जिनबिम्बाना मजनशलाकाः कारयित्वा स्वनिर्मितजिनालयस्य देहरीषु प्रतिष्ठापिताः । सं, १६७६ तमस्य वर्षत्यवैशाखशुक्लतृतीयायाम सूरवर्यैः मत्रिबंधव श्रीवर्धमानपद्मसिंहशाहकारितेषु महत्सु जिनालयेषु श्री शान्तिनाथ भतितीर्थकराणां भव्यानि जिनबिम्बानि प्रतिष्ठापितानि । सं. १६७८ तमे वर्षे भूयोऽप्याचार्या जामनगरम् उपेतवन्तः तदा उपयुक्तब धुभ्यां ७२ देहरी '५०१ जिन बम्बानामजनशलाकाप्रति ठाः सम्पादिताः तस्मिन् महोत्सवे द्वाभ्य बंधुभ्यं सम्मिन्य सप्तलक्षमिता मुद्रा व्ययीकृताः ।
श्रीरायशीयाहस्य भ्रात्रा श्रीनेणशीशाहेनाचार्याणामुपदेशतो जामनगरे भव्य ऊच्चशिखरशाल्येको जिनालयो निर्मापितो यश्चतुर्मुख आसीत् । तस्मिन् संभवनाथप्रभतीनां भव्यानां जिनविम्बानां प्रतिष्ठा: स्वयम् आचार्याणां करकमलैः कारिता। रायशीशाह-नेणशीशाहयो जिनालययोः प्रवेशद्वारमेकमेव स्थापितम् । तदन्तः श्रीनेमिनाथस्य चतुरस्र जिनालय निर्माप्य तस्मिन् मूलनायकाः श्रीरीनेमिनाथभगवन्तः प्रतिष्ठापिताः। अन्तश्चतुरस्स्य कारणात् तथा प्रवेशद्वारस्यैकत्वाद् उभावेव जिनालयौ 'चोरीवाला' देवाथायाविति निगद्यते ।
सं. १६७८ तमेहायने जामनगर एव चातुर्मास व्यत्याप्य १६७९ तमे संवत्सरे कच्छमाण्डवीस्थले वर्षावासः कृतः । चातुर्मासार्थ नगरप्रवेशावसरे महत् स्वागतमभूत् । तदनन्तरं यदा श्रीमन्तो भुजनगर गतास्तदानीमपि राज्यद्वारा नागरिकैश्च अतीवोत्साहपूर्वकंञ्च स्वागत व्या हृतम् । इदं स्वागत तिहासिकमासीदिति तदानीन्तनी प्रसिद्धिः । सं. १६८० वर्षे कोठारानगरे, सं. १६८१ तमे वर्षे अंजारनगरे तथा सं. १६८२ तमे हायने भद्रेश्वरे, इत्थं स्वीयान् वर्षावासान् कच्छदेशे विधाय पूज्य. आचार्याः भद्रिकान् जनान् धर्माचरणाय द्रढीकृतवन्तः । भद्रेश्वरे पूज्यानामुपदेशाद् वर्धमानपद्मसिंहशाहाभ्यां भद्रेश्वरतीर्थस्य सा कलक्षमुद्राणां व्ययेन र्णािद्धारः कारितः । साधर्मिकाना समुद्धारकर्मणि सप्तलक्षमुद्रा व्ययिताः । तथा च नवपदज्ञानपंचम्या उद्यापने पञ्चलक्षमुद्राणां व्ययो विहितः तदैव अरिष्टरत्ननीलमाणिक्यरत्ना दीनां भव्याः प्रतिमाः प्रतिष्ठापिताः । आचार्यश्रीणाम् उपदेशाद् उक्तबांधवौ गिरनार-तारं गा-अर्बुद-सम्मेतशिखर-प्रभति-तीर्थानां जीणेद्धिारे सोपानादिनिर्माणे च प्राये द्वादशलक्षमितानां मुद्रिकानां सद्व्ययम् आचरितवन्तौ । एतद. तिरिक्तं पावापुरी-चम्पापुरी-वाराणसी-हस्तिनापुरादिपु तीर्थानां ते यात्रामकापुः ।
2
શ્રી આર્ય ક યાણ ગૌતમસ્મૃતિગ્રંથ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org