________________
itshdooesasssksbsesbobossessketbsitesedesheetlestatiseaseseseseseseseakeseksesestakshsejestsejesearstyestedes [31] तदीया पत्नी करीमाबेगम या ज्वराक्रान्त्या संतप्ताऽभूत्-तस्या रोगपशमनाय श्रीमदाचार्य महोपाध्यायाः श्रीरत्नसागर महाराजा राजभवनं प्रेषिताः । मत्र-प्रभावाद् बेगम नीरोगणी संवृत्ता । मांसाहारस्य त्यागिनी जाता । शासकेन तत्रैक उपाश्रयोऽपि निर्मापितः । गुरूवियोगस्तथा गच्छेश पदालङ्कृति :
__ सं. १६७० तम वत्सरस्य चैत्रपूर्णिमायां श्रीधर्म मूर्तिसूरयः कालधर्म प्राप्ताः । परमपूज्यानामकारणकरुणाकरणपरायणानामनाकलितेन दिवः प्रयाणेन कल्याणसागरसूरय आत्मानं छत्रच्छायारहितं मन्यमानाः किमपि हार्दिकी तान्तिमनुभवन्त आसन् । चतुर्विध संधोऽपि तदानीं निर्विण्ण इवाभूत् । परं कालस्याने कस्य भवति सामर्थ्यम् । अतः प्रभासपट्टणस्य संधेन सर्वसम्मत्या निश्चितं यद् इदांनी वैदुष्यवैराग्यसम्पन्नाः श्रीकल्याणसूरय एवास्माकमालग्बनभूताः सन्ति । एतेषां सर्वविध सौजन्यं जिनशासनसंवर्धनसौष्ठव जिनागमरहस्य-बेद्यत्व च साम्प्रतं सर्वातिशायितां भजते । ए तएव अजातशत्रब: सकल -मुनि-गण-वन्दनीयाः प्रवीणतराश्च विद्यन्ते । तस्मादेत एव 'गच्छेश' पदेनालकरणीया इति ।
एतदनुसारं शुभ मुहूर्ते साधुसाध्वी-श्रावक-श्राविकाणां समुपस्थितौ महता संरम्भेण परम-समहणीये च्गछेशपदे प्रतिष्ठापिताः । जिनप्रतिमानामजनशलाकाः प्रतिष्ठापनाश्च
सं. १६७१ तमे वत्सरे पूज्य गुरुवरचरणः श्री धर्म सूरिमहाभागानामाज्ञयोपदेशेन च म त्रिप्रवरकुरपालसोनपाल बंधुभिर्निर्मापितयो र्जिनमदिरयो ४५० नूतनजिनप्रतिमानां श्रीकल्याणसागरसूविर्य : अञ्जनशलााः सम्पाय ताः प्रतिष्ठापिताः तत्रैव च सर्वेषां भाविकानामाग्रहवशाच्वातुर्मासोऽपि विहितः । ततः परम् आगरातो विहारं कृत्वा क्रमशः उदयपुर प्राप्ताः । तत्र सूरिपुर दराणां देशनाः श्रुतवा अतीव आनन्दततिन् अन्वभवन् । ते च जनाः भूयोऽपि किञ्चत् कालं यावद् देशनाऽमृतं पायं पायं आत्मनाम् उद्धार-कांक्षयाऽऽचार्यचरणान् वर्षावासाय प्रार्थयन् । कृपालवः श्रीगुरवस्तेषामन्यर्थन स्वीकृत्य उदयपुर एव मासचतुष्ठय याबद् व्यराजन् । श्रीसूरिवर्याणामपूर्वेण वैदुप्येण देशनादानपाटवेन च प्रभावितास्ते श्रीगुरुवरान् युगप्रधान' पदेनालमकार्षुः ।
सं. १६७३ तमे वर्षे राजनगरे तथ। स. १६७४ तमें हायने वर्ध मान (वढवाण) नगरे चातुर्मासौ कृतवन्तः । ततः पर शत्रुञ्जयतीर्थस्य जिनालयानां प्रतिष्ठाविधिः सम्पादितः ।
सं. १६७५ तमे वर्षे सूरिमहाभागा रायशीयाहस्य प्रार्थनया जामनगरं प्राप्ताः ।
આ ગ્રી આર્ય કયાદાગૌતમસ્મૃતિગ્રંથ રચી
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org