SearchBrowseAboutContactDonate
Page Preview
Page 1045
Loading...
Download File
Download File
Page Text
________________ [२८] लब्धा । तदनुसारमेव पत्रिका निर्माण्य देशेस्य सर्वष्वपि भागेषु प्रहिताः । दूरदूरतो भक्तिभाजः साधर्मिकाः श्रावक-श्राविकाः भद्रावतीतीर्थमागन्तुं प्रवृत्ताः । तस्मिन् समये संकतप्रदेशः ( रणभूमि: ) अतीव भीषण आसीत् । सेकतप्रदेशे संघरूपेण यात्रा सम्पादनमतीव दुष्करमभूत् । कारणादस्मात् शुभे मुहूर्ते संधे समाविष्टेन श्रावक-श्राविका समुदायेन सह सपरिवाराविमौ वर्धमान - पद्मसिंहशाहश्रश्रेष्ठिनौ सामुद्रिकेन मार्गेण नौकास्वारुह्य 'नागना (जामनगर ) पोतविश्रामस्थल प्राप्ताः | श्रीकल्याणसागरसूरयोऽपि साधूनां साध्वीनां च विशालेन समुदायेन सह सैकतमार्गतः कठिनमुग्रं च विहार विधाय 'नागना ' ( नवानगर ) पोतस्थितिस्थलं प्राप्ताः । तदानीन्तनं नवानगरमेव इदानीन्तनं 'जामनगर विद्यते । 1 अस्य नगरस्य भूपतिश्री जसवन्तसि हमहाभागैः संघपत्योरतीवव सगतं व्याहृतम् । पञ्चदशसहस्त्रयात्रिक- संख्यावतोऽस्य सइधस्य रक्षायै राज्ञा शतमिता शास्त्रास्त्रः सुसज्जिता सैनिकाः : प्रदत्तास्तथा च सङ्घार्थमुपयोगिनो भवेयुस्तावन्त एव गजा अश्वास्तथा रथादयोऽपि पुरस्कृताः । fasta cha tha tha ta sa ca chf ++ desshesh facts+ b***** संघपत्योर्गुणैराकृष्य भूपतिना तौ निवेदितो यात्रायाः पूर्णताऽनन्तरं भवद्भ्यामागत्य वसतिः कार्या किञ्च व्यापाराय कच्छभूपतेरर्थं करग्रहणं कर्तव्यमित्यपि सूचितम् । इदृशं राज्ञो निवेदनं सङ्घपतिभ्यां तथैव स्वीकृतम् । fasbenched जामनगराद् शुभे मुहूर्ते सङ्घस्य प्रस्थानमभवत् । अस्मिन् 'छ'रीपालके सङधे श्रीमन्तः कल्याणसागरसूरिप्रभृतयो द्विशतमिता मुनिवरास्तथा त्रिशतमिताः साध्योऽपि सम्मिलिता आसन् । पञ्चदशसहस्रसङ्ख्यकाः श्रावकश्राविकारूपा यात्रिणोऽभूवन् । एतदतिरिक्तं शतं सुभटाः, विंशतिर्वाद्यवादकाः, पञ्चविंशतिर्गायकाः, पञ्चाशद् रासादिनृत्यकर्तारः, शतं चारणाः, द्विशतमिताः पाचकाः शतसंख्याकाः कांदविकाः साधैकशतसङ्ख्याकाः पटकुटी नबंधकाः, शतं नापिताः, पञ्चाशद् लोहकाराः, तावन्त एव काष्ठशिल्पिनः, सूचीकाराश्च, नव हस्तिनः, नवशतमिता अश्वाः, पञ्चशतं रथाः सप्तशतं शकटाः, पञ्चशतम् उष्ट्राः, एकसहरूम् अश्वका', पंचदश सहस्रजनानां विष्टराणे भोजनस्य वस्तूनि, विशालानां पटकुटोनां साधनानि च वोढुः पशुनां समुदायस्योपयोगोऽभूत् । तदानीन्तने काले मरुत्तरादियानानां व्यवस्थाया अभावात् पटमण्डप निर्मातृवस्तूनां त्रिचतु समूहा अपि सह नीता आसन् । येषां वहनायापि शकटाश्वादयो बहव उपायुञ्जन् । यात्रिणस्तु 'छ' रीपालनपूवर्क नियमेन प्राचलन् । " શ્રી આર્ય કલ્યાણ ગૌતમ સ્મૃતિગ્રંથ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012034
Book TitleArya Kalyan Gautam Smruti Granth
Original Sutra AuthorN/A
AuthorKalaprabhsagar
PublisherKalyansagarsuri Granth Prakashan Kendra
Publication Year
Total Pages1160
LanguageHindi, Sanskrit, English
ClassificationSmruti_Granth & Articles
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy