________________
ekshde destratesetseshobstai
r esert.ki.sastest desterdestisteredesbobsesedestistskchsaskotestskoseseseseshdasleshdebatood
योजनाय श्रीसंघेनाम्यर्थितम् । तदनुसारमेव मंगले मुहूर्ते बहतीदीक्षा विधानं संपन्नम् । तदानी मुनिराजस्यास्य शुभाभिधान कल्याणसागर' इति प्रथितम् ।
यथा यथा दीपः प्रज्ज्वलति, प्रकाशः प्रवर्धते । जगद् दीपात् प्रकाशं सम्प्राप्य परंपरया प्रदीप्तिमद् भवति । वयसः सममेव नितरां प्रौढतां सम्प्राप्ताः श्रीकल्याणसागरमहाराजाः स्वकीयैः प्रवचनैरपि लोकमसिञ्चन् । यस्मिन् यस्मिन् ग्राभे, नगरे, महानगरे वा श्रीमन्तोऽगच्छन् न केवल तत्रत्या जैनशासनसमाराधका एवापितु तदितरधर्मावलम्बिनोऽपि तेषां शास्त्र. परिपूतां वाणीं श्रुत्वा मन्त्रमुग्धा इवाभवन् । सूरिपदप्राप्ति :
लोकपणां तपःपूतां च श्रीमत्कल्याणसागरमुनिराजानां ख्याति विज्ञाय गुरुवर्या पूज्यश्री धर्म मूर्तिसूरीश्वराः शासनसेवकानां विज्ञप्ति तथाऽऽत्मना वार्धक्यं चिन्तयित्वा तेभ्य आचार्यपदप्रदानाय स्वीकृति प्रदत्तवन्तः । महता संरम्भेण महानगरेऽहम्मदाबादापरनामनि राजनगरे सं. १९४७ तमें वर्षे श्रीकल्याणसागरमुनिवर्याः आचार्यपदव्या विमूषिता अक्रियन्त । असीत् तदानीमेतेषा वयः केवल षोडषवर्षात्मकमेव । अस्मिन्नेवावसरे उपाध्यायश्री-रत्नसागरमहाराजेभ्यो स्तथोपाध्याय-श्रीविनयसागरमहाराजेभ्यो — महोपाध्याय ' पदवीप्रदानपूर्वक नूतनाचार्यस्व शिष्यत्वेन ते घोषिताः । उग्रो विहार: 'छ' री पालकस घस्य यात्रा
आचार्यपदप्राप्त्यनंतरं श्रीगुरुचरणानामाज्ञानुसारं प्रौढप्रतापशालिनः श्रीकल्याणसागरसूरिवर्याः सर्वप्रथम 'कच्छदेश' प्रस्थिताः । कच्छपवेशाय द्वारभूते भद्रेश्वरतीर्थ ( भद्रावतीतीर्थे ) सूरिवर्याणां समागमनं विज्ञाय तत्रत्येन श्रीसंघेन भव्यः प्रवेशमहोत्सवः समायोजितः ।
तत्र पदार्पणानन्तरं तीर्थस्पर्शनाविधिं निवर्त्य स्थिरतायां सत्यां पूज्यानां प्रथमं व्याख्यानमभूत् । तत्र श्रीमदाचार्य : शत्रुञ्जय-महातीर्थस्य महिमा तथा 'छरीबालकसंघस्य माहात्म्यमद्भुतया शैल्या शास्त्राणां वचनानि समुद्धृत्य प्रतिपादिते । प्रभावशालिन्या वचाविन्यस्या तत् श्रुत्वा भविकानां हृदयानि नितान्तं प्रसत्तिमासादितवन्ति । तदानीं तत्र श्रावकेषु 'आरीखाणा' (सुथरी निकटस्य) ग्रामाद् व्यापाराय भद्रावतीमागत्य निवासतो लालनगोत्रश्रेष्ठिश्री अमरसि हशाहस्य सुपुत्रौ श्रेष्ठि-वर्धमानशाहस्तथा श्रेष्ठ-पद्मसिंहः श्रीशत्रुजय महातीर्थस्य संध निःसारयितु भावनाशीलावभूताम् । 'घर्मस्य त्वरिता गति'रित्यनुसार सूरिचरणानामने भावनैषा परिभाविता । बलाबलं च विचारितम् । आग्रहातिशयाच्च स्वीकृतिरपि ताभ्यां
આ શ્રઆર્ય કtવાઘગોતમ સ્મૃતિ ગ્રંથ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org