________________
[21] *c*c*c*c*c*cces
sheshacha asheshasathsaas bassetschhssssss
भक्तिभावना भावयन्तः, लोकोपकारपरायणतां प्रथयन्तः जिनशासनपताकां दिशि दिशि स्फोरयन्ता भूयोऽपि स्वेच्छया विहरन्तो ' लोलाडा नगरी सम्माप्ताः । तेषु दिवसेषु पुण्यशाली श्री नानींग श्रेष्ठ्यपि परदेशात् परावृत्य परिवारं प्रेम्णा पालयितुं समागतोऽभूत् । सूरीश्वराणां दर्शनेन तेषां प्रवचनार्गनेन पवित्रितान्तःकरणो जिनचरणारविंदैकशरणः श्रेष्ठी स्वीयया पल्या पूज्याचार्याणां कोडनकुमारस्य शासनसेवायै समर्पणप्रस्तावमप्यश्रौषीत् । सति समये पुनरपि स एव प्रस्तावः श्रीसंघसमक्ष सूरीश्वरैः प्रस्थापितः । एकतो जिनशासनसेवानुरागः परतश्च पुत्रानुरागः श्रेष्ठिनं दोला चलवृत्त्या चिन्तामग्नमकुर्वताम् । पत्नी नामिलदेव्यपि तचिंतने सहभागिन्यभवत् । परस्परं विसृशन्तौ दम्पती प्रान्ते 'आत्मनः शासनं महत्', 'वैराग्यं परम' धनम् ', संसारवासना लिप्तो नामोद्वारक्षमो भवेत् ', यदहरेव विरज्येत तदहरेव प्रव्रजेत् ' इत्यादि - सूक्ती: स्मारं स्मारं सकलस्यापि जगतः कल्याणकामनया कोडनकुमारं पूज्याचार्यचरणयोः समर्पितवन्तौ । तत्र स्थितोऽखिलोऽपि श्रीसंघस्तयोर्भाग्यं कर्तव्यं शासनानुरागं च तुमुलेन हर्षेणाभ्यनन्दत् ।
6
6
भागवती दीक्षा ज्येष्ठी दीक्षा च
यथाकालं स्वेच्छया विहारं कृत्वा श्रीमन्त आचार्यपादा 'लोलाडा' ग्रामात् 'धोलका ' नगर प्राप्ताः । मुनिभावं श्रितो बालः कोडनकुमारोऽपि सहैवागतः । तत्र शुभ मुहूर्तमवलोक्य तत्रत्य श्रीसंघस्य प्रार्थनया कोडनकुमारस्य दीक्षामहोत्सवायोजनं समपद्यत । केवल नववदेशीयं बालमेनं दीक्षा - भावनया समुल्लसन्तं दृष्ट्वा दृष्टवा सर्वेऽपि चक्रिता अभवन् । महता संरम्भेण जैनशासनस्य जयबोपपूर्वक वीरसंवत् २१२२, विक्रमसंवत् १६४२ तमे वर्षे भागवती दीक्षा सम्पन्ना । अस्मिन्नेव समयेऽभिनवस्य शिष्यस्य सुखियै: 'शुभसागर ' इत्यभिधानमपि घोषितम् ।
ततः परं क्रमेण गुरुचरणारविन्दसाधकेन बालमुनिनाऽनेन शुभसागरेण व्याकरण - काव्य छंदोल कार - ज्योतिष - मंत्रतंत्रादिशास्त्राणां गहनमध्ययनं प्रारब्धम् । श्रेयो भाजां भवन्ति रत्नानि ' इत्याभाणकानुसार हृया विद्यापि स्वयमेव शुभसागरेऽधिवासाय समुत्सुकेचाभवत् । परतश्च मुनेराचारशिक्षणं परमावश्यकमिति ज्ञात्वा सूविर्यै धर्मिक शिक्षणस्यापि व्यवस्था विहिता । बालमुनिरयं स्वकीयप्रतिभया तन्मनस्कतया पठने दत्तचित्तः सन्ननवरतं क्रमेण शास्त्रचिन्तने नपश्चरणेनवृत्तोऽभवत् । अस्त्र निष्ठां योग्यतां च विज्ञाय ज्ये उदीक्षा महोत्सव सभा -
"
"શ્રી આર્ય કલ્યાણૌતમ સ્મૃતિગ્રંથ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org