________________
acte.ke.healab hosde ke Le lost to tele.kesh.ki.b abete.keelosbdeshse seekesekase.sade.ke.ke.cheele.kesh shalkachake checkect sheksebedeobactoshsbab.[२५] प्रदेशेषु भूयः प्रसृतमभूत् । स्वीय नगरं स्वीयेन पदार्पणेन कृतार्थी कुर्व तां तेषां पूज्यचरणानां दर्शनायाहमहमिकया जना उत्युका एवासन् । उपाश्रये सशिष्या विराजमानास्ते स्वीयैः प्रवचनरपि भाविकान् जिनशासने श्रद्धाबद्धान् विदधति स्म । तेष्वेव दिवसेषु श्रीमती 'न मिलदे' स्वीयं सप्तवर्षदेशोयं कोडनकुमार' सह नीत्वा वन्दनाय गच्छति स्म ।
__ एकस्मिन् दिने बालकोऽयं गुरुचरणानां वंदनां विधाय तेषां निकट एव स्थित्वा मातरमवदत्- "मातः, अहमपि युनिभविष्यामि। मम मनः गृहे गन्तु नेच्छति' श्रश्वैव माताऽपि प्रहसन्ती 'यथेच्छसि तथा कुरु' इति न्यगादीत् । सोऽय हासस्तदानी न केवलं हासाया भूदिति कोऽजानात् ? वाते य तदा तु विनोद एव निमग्ना । बालोऽपि मात्रा साक गृहमगच्छत् ।
____ गुरुवर्या इमां घटनां गम्भीरतया व्यचारयन् “ अहो बालस्य चेष्टितम् ? नूनमयं बालः कोऽपि पूर्वजन्मना महात्मा । अस्य प्रवृत्तिः किल सत्यमेव मुनिजनानुकारिणी । अस्मिन् धूलिधूसरितं स्त्नमिव वैराग्यभावना, विवेको, निश्चितमेव तिरोहितो विद्यते । बाल्यादेव यदि वैराग्ये मतिभविष्यति तदा सा प्रौढे वयसि परिपक्वतां प्रपन्ना सती निखिलस्य जीवनस्य कल्याणाय भविष्यति । यदि नामायं बालकः साम्प्रतिके काल एव विरक्तो भवेत् तदाऽस्य जीवनं तु धन्यधन्यं भविष्यत्येव सहैव ब्रह्मचर्येण तपसा च परिपृतोऽयं सकलस्यापि लोकस्य कल्याणाय सक्षमाऽपि भविष्यतीति ।
एवं विचिन्त्य द्वित्रिदिनानन्तरं पुनरपि दर्शनाय समागतां श्रीमती नामिलदेमहाभागां पूज्यपादाः सूरिवर्याः समबोधयन् । ----
वालकोऽयं तव कोऽपि महापुण्यशाली विद्यते । अस्य सौभाग्य सम्भावयन्नहं विचारयामि यदीमंबाल शासनसेवाय भवती समर्पयेत् तदा अवश्यमेवायं जिनशासनस्थ महान् प्रभावको भविष्यति, न चात्र कश्चन संदेहलेश इति ।" धीरया धोरण्या प्रस्तावितमिम वचन विन्यासं समाकर्ण्य नामिलदे चिन्तासन्तानसङ्कलिता क्षणाय मौनमवलम्व्यातिष्ठत् । साक्षाद् धर्ममूर्ति-श्रीधर्ममूतिसूरीश्वराणां धर्ममयानि वचांसि तस्या हृदि प्रविष्टान्यपि किमपि निर्णेतुं न प्राभवन् । अत एव तया प्रोक्तम् : " पूज्यानामाज्ञा शिरोधार्या विद्यते । साम्प्रतमस्य पिता परदेशं व्यापाराय गतोऽस्ति । अतस्तदागमनान्तरं विचायेंतेति ।" शासनसेवा कोडनकुमारस्य सम्र्पणम् ।
वर्ष वयानन्तरमाचार्यप्रवरा देशनां वितरन्तः, धार्मिकानुष्ठानान् संपादयन्तः, भविकानां
મ શ્રી આર્ય કયાણામસ્મૃતિગ્રંથ કરી
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org