________________
[२४]
अन्येऽपि ग्रहाः स्वस्वस्थानेषु स्थिता बालकस्यास्य धर्मधुराधारकत्वं शासनसेवापरायणत्वं वीतरागत्वं च व्यज्जयन्ति स्म । कस्यापि महतः पुरुषस्य योगिनो वा बालरूपेऽवतरणं प्रकटय्य ज्योतिर्वित् ककाराक्षरेण नामकरणाय समसूचयत् । एतदनुसारं जातकस्य नाम 'कोडनकुमार' इति निर्धारितम् । बाल्यजीवनम् शिक्षा च
अखिलस्यापि भूमण्डलमागतस्य नवजातस्य शिशोः समागतिमभिलक्ष्य पितरौ पारिवारिकाश्यानन्दसन्ततिमनुभवन्त्येव । एषा किल सिद्धा पद्धतिः । एवमेवास्य भाविनो जगद्गुरोः श्रीमतः कल्याणसागरसूरीश्वरस्य शिशुस्वरूपं सर्वेषां प्रमोदायाभवत् । महती मुत् सर्वत्र प्रसृता । सर्वेऽपि स्वपरिवारे नवागतस्य प्राधुर्णिकस्य स्वागतमिवातन्वाना अभ्यलक्ष्यन्त । यथायथं लाल्यं बाल्यं जीवनमवर्धत | सति समये कोडनकुमारं गुरुचरणयोजिनेश्वर प्रतिमायाश्व दर्शनेन संभावितवन्तौ पितरौ । शिशुरयं मातुरके सुखं किलकिलायमानः प्रसन्नेन वदनेनात्मीयानां प्रमोदं वर्धयमानः शनैः शन्नैरङ्गणदेहलीं यावज्जानुभ्यां हस्ताभ्यां च चलितुं प्रवृत्तः । यदा कदा मातुः पितुर्वा गतागतिमभिलक्ष्य ताभ्यां साकं बहिर्गमनायापि चेष्टां प्रादर्शयत् । आलक्षितदंतमुकुलः प्रमुदित चांचल्यः मन्दस्मितमधुररवः कोडनकुमारोऽयं सर्वस्यापि प्रीतिपालनामनुभवन् शरीरेण स्वस्थो विचित्रैर्वचनविन्यासैरलौकिक चरित्राचरणैश्च पितरौ परिजनांश्च विस्मयेऽपि पातयति स्म ।
cases sochchhs
यदाऽस्य माता नामिलदेवी पूज्यानां साध्वीनां दर्शनं विदधाति स्म तदाज्यमपि तदनुकृतिमाकलयन् वंदनां करोति स्म । पिता श्रीनानींग महाभागो यदा पूज्यानां साधुमहाराजानां वन्दनां विधाय तेषां पादौ स्पृशति स्म तदाऽयमपि तथैवा चर्य सकलानपि सुखयति स्म ।
पूज्य गुरुवर्यैर्बालस्य चेष्टा विशेषानधिगत्यतस्मै नमस्कार मंत्रोपदेशः कृतः । अस्य समयवयोभिर्वयस्यैः सहैवायं समागतैः साधुमुनिराजैर्मध्याह्नसमये संस्कारितोऽयं कोडनकुमारः पंचनमस्कार मंत्रं शुद्धया वाण्या वक्तुं शक्तोऽभवत् ।
एवं पञ्चवर्षदेशीयोऽयं बालः पित्रा शुभे मुहूर्ते विद्याभ्यासाय गुरुचरणौ प्रापितः । शालायां स्वीयैः समवयोभिरन्यैर्बालकैः सह मुदितमनाः क्रमेणाक्षरपती : शिक्षणे मनो न्यवेशयत् । बालस्य तेजोमयं मुखं चांचलयाञ्चितां चेष्ठां जिज्ञासापूरिते नेत्रे, आकर्णनलालसौ कर्णौ चाकलय्य गुरुरपि मुदितमुदितः प्रेम्णा तमशिक्षयत् ।
पूज्यानां दादा धर्ममूर्तिसूरीणां पदार्पणम्
एकदा पूज्या अचलगच्छेश्वराः दादा धर्ममूर्तिसूरीश्वरास्तत्र 'लोलाड़ा' ग्रामं प्राप्ताः । तेषां प्रशस्तेषु
શ્રી આર્ય કલ્યાણૌતમ સ્મૃતિગ્રંથ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org