________________
[२२]♠♠♠♠♠♠♠♠
वर्धमानसुता वीरपालश्च विजपालकः । जगड्डुर्भारमल्लच, भुजेऽवसन्पुरे ततः ॥ २६०॥ वेदाङ्करसचन्द्रेऽब्दे, पद्मसिंहोऽपि स्वर्गतः । कच्छस्थमांडवीपुर्यां तत्राऽऽसीत्सूरिराट् तदा ॥ २६१ ॥ सूरिर्वर्षे खखर्षीन्दौ, झालोरे चागतो मरौ । तत्राऽऽसीद्धि तदा मारी, तया लोका भृशं मृताः ॥ २६२ ॥ विज्ञप्तो मंत्रिलोकैश्च सूरिंर्मारीं न्यवारयत् । तदाऽभूज्जैनधर्मस्य, सूरेर्मरौ प्रभावना ॥ २६३ ॥ गुर्जरकच्छसौराष्ट्रमरूपंचनदादिषु । ग्रामाद्ग्रामं हि सूरीशो, विजहार पुनः पुनः || २६४ || सूरीश्वरोपदेशेन जीर्णोद्वारा जिनालयाः । प्रतिष्ठाः प्रतिमा यात्रा, ससंघा दीक्षिता भृशम् || २६५ || ज्ञानाला प्रभूताश्च, वात्सल्यानि सधर्मिणाम् । तपउद्यापनादीनि, दीनोद्धारा बोभुवन् ॥ २६६॥ अमदावादसादयोर्नीदलाय्यां च पाटणे । चातुर्मासानि कृत्वाऽथ, प्रांत्यानि भुजमाययौ || २६७॥ उग्रविहारसूरीशः, सोत्सवं हि प्रवेशितः । चातुर्मासं च संघेन, सूरेस्तत्रैव कारितम् || २६८ || वृद्धत्वं स्वं विचिन्त्य प्रागमराम्बुधिसूरये । विद्याः शिक्षाः प्रदायाऽदात्, रत्नाब्धयेपि सूरिराट् ॥ २६९॥ आकाशगामिनीं विद्यां ह्यदृश्यकारिणीं तथा । अदत्त्वैव समाध्याप्तो, जैनधर्मप्रभावकः ॥ २७० ॥ वसुचन्द्रर्षिचन्द्रे वै, संवत्सरे च वैक्रमे । राधशुक्ल तृतीयायां स्वर्गतः सूरिसत्तमः ॥२७१ ॥ एक: सूरिः परिवारे, महोपाध्यायका दश । एकाधिका उपाध्यायः, पंचदशाऽभवन्वरा ॥ २७२॥ स्थविरा गणिनश्चैव प्रवर्तकांदिसाधवः । द्विशती वर्थचारित्रा, ध्यानिनश्च तपस्विनः ॥ २७३॥ महत्तरा प्रवर्तिन्यादयः साध्व्यश्च सत्तमाः । कल्याणाब्धेश्व सूरेर्हि, त्रिशती वर्यसंयमाः ॥ २७४॥ स्तोत्रकोशचरित्रस्तवनादीनि हि सूरिंराट् । संस्कृतचित्रपधैर्नु, विद्वद्वर्यः सुदृब्धवान् ॥ २७५ ॥ भुजसंघकृता यात्रा, श्मशानस्याऽभवद्वारा । जगडूच्छालिता मुद्रास्तस्यां सहस्रपंचकम् ॥ २७६॥ वर्धमानसुतेनाथ, जगड्डुना कृतो वरः । महोत्सवो गुरोर्भक्त्या, स्तूपः संघेन कारितः ॥ २७७॥ महोत्सवेन संघेन कृतोऽमराब्धिसूरिपः । गच्छेशो गुरुचैत्यं च विशालोच्यं हि कारितम् || २७८ ॥ सोत्सवं स्थापिते तत्र कल्याणसूरिपादुके । मूर्तियुग् गुरु चैत्यानि, गुरोरस्य ततोऽभवन् ॥ २७९ ॥ सपादुका बृहन्मूर्तिर्मुजस्य गुरुमंदिरे । संप्रत्यस्ति तथा सूरेर्गोतमान्धेव मूर्तिका || २८०॥ सम्यग्ज्ञानप्रकाशकं कुपथहं भद्रप्रदं कामहं, तीर्थोद्धार प्रभावकृज्जिनगृहानिर्मापकं रागहं । सूरिं वादिमदापहं विरतिदं शंदं कषायापहं, धर्मस्योरुप्रभावकं युगवां कल्याणवाधिं स्तुवे ॥ २८९ ॥ पूर्णता मग सुरेश्वरित्रं लघुकं कृतम् । मयाऽत्र स्खलितं यद्धि संशोध्यं तच्च कोविदैः ॥ २८२॥ अचलगच्छपत्त्वाप्तगुणसागरसूरिणा । गौतमाब्धिप्रशिष्येण, नीत्यव्धिशिष्यकेण हि || २८३ || त्रित्रिनेत्रवर्षेहि, गुरुभक्त्याऽल्पबुद्धिना । भाद्रपदासिते पक्षे, पंचम्यां शनिवासरे ॥ २८४ ॥ सूर्यचन्द्रौ च यावत्स्तश्वरित्रं जयतादिदम् । वाच्यमानं ददबोधं, सावत्सूरेहिं सौख्यदम् || २८५ ||
"
20
Jain Education International
શ્રી આર્ય કલ્યાણ ગૌતમ સ્મૃતિગ્રંથ
For Private & Personal Use Only
www.jainelibrary.org