________________
ဖ49 ) ဖဖဖဖဖဖဖဖဖ ၉၆
၉
कककककककककक २१] चोरिमन्मंदिरं मध्येऽभवत्तेन च चोरिमत् । मंदिरयोश्च नामाऽभूवयोस्तत्र प्रसिद्धिभाक् ॥२३३॥ विज्ञप्त्या श्रेष्ठिनस्तत्र चातुर्मासं प्रभावकम् । विधाय कच्छदेशं हि ययौ सूरीन्द्रसत्तमः ॥२३४॥ प्रतिग्रामं विहारं हि, कुर्वन्प्रबोधयन्गुरुः । मांडवी च पुरीमागात्सत्संघेन प्रवेशितः ॥२३५॥ संघाग्रहेण सूरीन्द्रश्चातुर्मासं व्यघाच्छुभम् । ततो ययौ भुजं वर्षे, नवर्षिरसचन्द्रके ॥२३६॥ सपौरभारमल्लेन, राजसन्मानपूर्वकम् । गुर्वागमनहृष्टेन, राज्ञा सूरिः प्रवेशितः ॥२३७॥ सूर्युपदेशकं श्रुत्वा, हृष्टो भूपश्च पौरयुक् । उपकारादि संस्मृत्य, प्रशंसामकरोभृशम् ॥२३८॥ सपौरभूपविज्ञप्त्या, सूरिविंद्वच्छिरोमणिः । सत्त्वान्प्रबोधयन्भव्यान्मासं यावरिस्थतस्तदा ॥२३९॥ ततो विहृत्य कोठारापुरीमागत्य सूरिपः । चातुर्मासं व्यधाद्भव्यं, बिद डां च पुरीं ययौ ॥२४०॥ मासकल्पं विधायाऽत्र, पुरमंजारमाययौ । चातुर्मासं च तत्राऽस्थात्संधाग्रहेण सूरिपः ॥२४१॥ इतो जामपुरे भ्रात्रोः सचिवयोधनं यशः । असहमानदुष्टेन, कोशपेनाऽशुभं कृतम् ॥२४२॥ मुद्रानवसहस्राणां, विधायनवलक्षकम् । भूपपत्रमदादुष्टो, मंत्रिभ्यां मार्गयन्धनम् ॥२४३॥ योगिरूपमहाकाल्याः, प्राप्य चित्रलतां च तौ, कष्टं ती|ऽशुभं ज्ञात्वा, कच्छभद्रावती गतौ ॥२४४॥ तज्ज्ञात्वा भूमिपेनाऽपि, लोहाणाज्ञातिकाऽहितम् । दुष्टं तं कोशपं हत्वाऽऽहूतौ तौ नाऽगतौ पुनः ॥२४५॥ चत्वारि ह्योशवंशीयाः सहस्राण्यागतास्ततः । भद्रावती ततः सूरिविज्ञप्तश्च समाययो ॥२४६॥ ससंधो वर्धमानश्च, पद्मसिंहेन संयुतः । प्रावेशयत्पुरी सूरिं वृत्तान्तश्चाऽह तत्पुरः ॥२४७॥ कारयित्वा चतुर्मासं, तौ च सूर्युपदेशतः । माणिक्यारिष्टनीला दिरत्नमूर्तीविधाप्य च ॥२४८॥ पंचमीसिद्धचक्राद्युद्यापनं च विधाय हि । पंचलक्षव्ययं तेषु, व्यधातां श्रेष्ठिपुंगवौ ॥२४९।। भद्रेश्वरस्य तीर्थस्य, वर्षेऽग्निसिद्धिक्षितौ । जीर्णोद्धारं विधायाऽऽशु, सार्धलक्षव्ययेन च ॥२५॥ कृत्वा साधर्मिकोदारं, सप्तलक्षव्ययादरम् । चंपापावाबुसम्मेतराजवैभारपावकान् ॥२५१॥ कदंबतालसिद्धादिरैवतादींश्च तीर्थपान् । संस्पृश्य यात्रया तेषामुद्धारार्थ पृथक्पृथक् ॥२५२॥ प्रादातां भ्रातरौ सर्वं, लक्षाणां पंचविंशतिम् । ततो निवृत्त्य चागातां, पुरी भद्रावती मुदा ॥२५३॥ बाणसिद्धिरसेन्दुब्दे, सूरिः शिष्यामराब्धिकम् । भद्रावत्यां व्यधात्सूरिं, द्विलक्षोत्सवपूर्वकम् ॥२५॥ कारितं तच्चतुर्मासं, ताभ्यां पुनश्च कारितम् । वसुसिद्धिरसेद्वन्द्वदे, वर्धमानोऽपि स्वर्गतः ॥२५५|| विचार्य धर्मकार्याणि, धर्मात्मत्वमुदारताम् । तस्येभ्यस्य तदा सूरेरक्ष्णोरश्रूणि चाऽपतन् ॥२५६॥ : मुद्रा द्वादशलक्षाणि, मृत्योः पश्चात्तदात्मजैः । व्ययिता दहनस्थाने, लक्षत्रयव्ययेन च ॥२५७॥ महावापी च काराप्य, चैत्यं तस्मिंश्च पादुके । स्थापिते शान्तिनाथस्य, भद्रेश्वरे हि सोत्सवम् ॥२५८॥ द्रव्यं वितीर्य कार्येऽस्मिन्पद्मसिंहोऽपि स्वात्मजैः । रणमल्लकुरपालश्रीपालैमांडवीं गतः ॥२५९॥
અને શ્રી આર્ય કરયાણાગૌતમસ્મૃતિ ગ્રંથ BOLE
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org