________________
[२०]
hd
bobsheshadiseseseksidasebateinstadasesesesystestosesettsbsesseebsiteshsettesedesevedeisbspothohibite
प्रतिष्ठा शान्तिनाथस्य, वर्धमानजिनालये । कृता च षोडशेशस्य, राजसिंहजिनालये ॥२०६।। द्वयोमंदिरयोरेवं, मूलनायकको कृतौ । अपूर्णशिखरत्वाच्च, पद्मसिंहजिनालये ॥२०७॥ प्रतिष्ठितो न मूलेशस्त्रिषु जिनालयेषु च । प्रतिष्ठिता मुनीन्द्रेण, प्रभूता जिनमूर्तयः ॥२०८॥ शरर्षिरसचन्द्रेऽब्दे, प्रतिष्ठा ह्यजना युता । संजाता सूरिबोधेन, पावना पापहारिणी ।।२०९॥ तेषां जिनालयानां हि, निर्मापणादिके व्ययः । सार्धचत्वारि लक्षाणि, द्रम्माणां श्रेष्ठिभिः कृतः ॥२१०॥ श्रेष्ठिनो राजसिंहस्य विज्ञप्त्या सूरि पुंगवः । ययौ जामपुरं तूर्णं, संघेन च प्रवेशितः ॥२११।। स्वपितुस्तेजसिंहस्य, चैत्यस्य परितः स्वयम् । कारितलथुचैत्येषु द्वासप्ततौ तदा वराः ॥२१२॥ पंचशत्येकपंचाशच् , जिनानां मूर्तयः शुभाः । सूरिणा श्रेष्ठिविज्ञप्त्या, प्रतिष्ठिताः कृतांजनाः ॥२१३॥ बाणर्षिरसचन्द्रेव्दे, राधशुक्लाष्टमीतिथौ । प्रतिष्ठा राजसिंहेन कारिता कीर्तिपुण्यदा ॥२१४॥ लक्षत्रयव्ययश्चैत्यनिर्मापणादिकर्मसु । राजसिंहस्य संजातस्तेनैपश्च मुदा कृतः ॥२१५॥ विज्ञप्त्या वर्धमानस्य, चातुर्मासं च सूरिणा । कृतं तत्राऽभवत्कार्यधर्ममहाप्रभावकम् ॥२१६॥ वर्धमानस्ततः सूरेोधेन पद्मसिंहयुक् । सिद्धाचलस्य संघेन, व्यधाद् यात्रां ससूरिपः ॥२१७॥ श्रेयांसनाथमूलेशः पद्मसिंहस्य मंदिरे । प्रतिष्ठितश्च विज्ञप्त्या, श्रेष्ठिनोः शिवसूरिणा ॥२१८॥ रसर्षिरसचन्द्रेऽब्दे, द्वितीयायां च फाल्गुने । सिते पक्षे विद्यते च, लेखोऽधुनाऽपि मंदिरे ॥२१९॥ चतुर्लक्षाणि कृत्वाऽस्यां, मुद्राणां धनिनौ व्ययम् । जामपुरं समागातां, ससंघौ सूरिणा सह ॥२२०॥ तिस्रः समप्रमाणा हि, शान्तिनाथस्य मूर्तयः । स्वकारिते बृहच्चैत्ये, विज्ञप्त्या श्रेष्ठिनोस्तयोः ॥२२१।। रसर्षिरसचन्द्रेऽब्दे, महामहेन तत्र वै । राधशुक्लतृतीयायां, सूरीन्द्रेण प्रतिष्ठिताः ॥२२२॥ पद्मसिंहस्य विज्ञप्त्या, चातुर्मासं च तत्कृतत् । तत्र युगप्रधानेन, सूरिणा वै प्रभावकम् ॥२२३॥ ततो विहृत्य सूरीन्द्रः, पादलिप्तं गतः पुरम् । चातुर्मासं च तत्कृत्वा, गतो जामपुरं ततः ॥२२४॥ श्रेष्ठिनोस्तत्रविज्ञप्त्या, तन्मंदिरे कृतेषु च । परितो लघुचैत्येषु, द्वासप्ततौ हि सूरिराट् ॥२२५॥ सैकां पंचशती मूर्तीः, प्रतिष्ठिता व्यधाद्वराः । वस्वृषिरसचन्द्रेऽब्दे, पंचम्यां राधशुक्लके ॥२२६॥ सप्तलक्षव्ययो जातो, निर्मापणादिकर्मसु । महामंदिरयुक्तानां, द्वासप्ततिजिनौकसाम् ।।२२७॥ अभूत्साधर्मिवात्सल्य, दीनयाचकपोषणम् । देवादिद्रव्यवृद्धिश्च, जाता धर्मप्रभावना ॥२२८॥ श्रीकर्यां मौर्यपुर्यां चै - तत्कारितजिनौकसोः । भ्रातृभ्यां कृतविज्ञप्तिः प्रतिष्ठामकरोद्गुरुः ॥२२९।। पुनर्जामपुरं गत्वा, राजसिंहस्य बंधुना । कारिते चौमुखे चैत्ये, नेणसिंहेन चाऽकरोत् ॥२३०॥ चतस्रः प्रतिमा भव्या, बृहतीः संभवेशितुः । प्रतिष्ठिताः सदृग्माना विज्ञप्तः समहं गुरुः ॥२३१॥ लक्षत्रयव्ययश्चाऽभूच्चैत्यनिर्मापणादिके । द्वारमेकमभूत्तत्र, राजनेणजिनौकसोः ॥२३२॥
રચી શ્રી આર્ય કાયાણગૌતમસ્મૃતિગ્રંથો
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org