________________
h
ddeshsasteshejashreshsastepsbseshishdesothstodesbpdeseseseredasbobotobobekshekdedesebedekhdevatedesisex
[१]
तत्र सूरिं प्रपश्याशु, नत्वा गद्गदितश्च सः । वृत्तान्तं प्रोच्य पप्रच्छ, तदाऽवसूरिशेखरः ॥१८॥ चिन्तां विहाय गच्छत्वं सर्वं शुभं भविष्यति । आगमिष्याम्यहं तत्र, करिष्याम्युचितं च यत् ॥१८१॥ श्रद्धां धृत्वा गुरोर्वाण्यां स्वर्णपालो गतश्च द्राक् । विद्ययाऽऽकाशगामिन्या, तत्प्राप्तं सूरिणापुरम् ।।१८२॥ सूरिं समागतं वीक्ष्य, विस्मितश्च प्रहर्षितः । कुरपालः प्रणम्याऽऽशु, विचार्येति प्रशंसति ॥१८३॥ शीघ्रमागाद्यतः सूरिहि कष्टादुद्धरिष्यति । सोनपालोऽष्टमेहन्यागात्सूरिं प्रेक्ष्य जहर्ष च ॥१८४॥ आय तौ जहांगीरः, प्राह नाद्याऽपि दर्शितः । त्वद्देवेन चमत्कारस्त्रोटयोमि ततोऽद्य भोः ॥१८५।। गुर्वाज्ञयाहतुस्तौ च, राजन्नागच्छ मन्दिरम् । चमत्कारं च देवस्त्वां, दर्शयिष्यति निश्चितम् ॥१८६॥ जहांगीरो निशम्येति, ययौ जिनालयं तदा । राजन्प्रणम देवं चेच्चमत्कारं दिदृक्षसि ॥१८७॥ श्रुत्वेत्यागतसूरेश्च, वाणी नृपो नमत्यरम् । देवीं सूरिमहाकाली, स्मृत्वा धर्मध्वजं तदा ॥१८८॥ कृत्योर्ध्वमित्यवग्देव, धर्मलाभं प्रदेहि भोः । हस्तमुद्यम्य मूर्त्याद्राग, धर्मलाभेति घोषितम् ॥१८९॥ श्रुत्वा प्रस्तरमूाश्च, निरीक्ष्योद्यमितं करम् । विस्मितो भीतभीतश्च, सूरि नत्वाऽवदन्नृपः ॥१९०॥ सम्यग्देवो हि जैनानां, मन्त्रवानिश्च सद्गुरुः । प्रोच्य दशसहस्राणि, निष्कानप्रेषयन्नृपः ॥१९१॥ सूरिणाऽगृह्यमाणं तद्, द्रव्यं ताभ्यामदान्नृपः । धर्मकृते हि साधूनां, निस्पृहत्वं प्रशंस च ॥१९२॥ प्रशंसा जैनधर्मस्य, सूरेश्वा भूत्प्रभूयसी । जाता शान्तिस्तदा भ्रात्रोलोढागोत्रिकयोस्तयोः ॥१९३॥ धर्मप्रभावनाः कुर्वन्गच्छेशो व्यहरद्भुवि । उदयाग्रपुरमागात्संघसत्कारपूर्वकम् ॥१९४॥ चातुर्मास्यां स्थितस्तत्र, संघाग्रहेण सूरिपः । महाप्रभावनां कुर्वन्शासनस्य प्रभाववान् ॥१९५॥ . महाप्रभावकं ज्ञात्वा, सर्वसूरिषु तं वरम् । पदं युगप्रधानेति, संघस्तस्मा, अदान्मुदा ॥१९६॥ । नमः शुक्लद्वितीयायां, वर्ष नेत्रर्षिषक्षितौ । महायोगीश्वरः सूरिर्जातो युगप्रधानकः ॥१९७॥ चातुर्मासे गते सूरिहरन्क्रमतो भुवि । लोकान्धर्ममयान्कुर्वन्नमदावादमागतः ॥१९८॥ प्रवेशितः कृयानाथो, महामहेन सूरिपः । चातुर्मासं च संघेन, सूरेस्तत्रैव कारितम् ॥१९९॥ धर्मकार्यैरभूत्पूर्णं, चातुर्मासं प्रभावकम् । सूरियुगप्रधानश्च, विहारमकरोद्भुवि ॥२०॥ भव्यान्प्रबोधयन्सूरिर्वर्धमानपुरं गतः । प्रवेशितश्च संघेन, सन्महोत्सवपूर्वकम् ॥२०१॥ वढवाणे तदा संघविज्ञप्त्या सूरिसत्तमः । चातुर्मासं प्रभावाढयं कृत्वा सिद्धगिरिं ययौ ॥२०२॥ वर्धमानपद्मसिंहराजसिंहा निशम्य तत् । तत्राऽऽगत्य च विज्ञप्ति, व्यधुः सूरेर्धनेश्वराः ॥२०३॥ जिनालयास्त्रयो जाताः, पावने तीर्थशेखरे । सूरिशेखर किं कुर्मो, मार्ग दर्शय सद्गुरो ॥२०४॥ ... सूरिणा दर्शिते मार्गे, श्रेष्ठिनश्च महोत्सवम् । चक्रुर्वर्य प्रतिष्ठाया, महापुण्यप्रदं तदा ॥२०५।। .
મિ શ્રી આર્ય કયા ગૌતમસ્મૃતિગ્રંથ
છે
A
RE
.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org