________________
bsbsbshsbshshshshshobshshabadsbsechubsbshsbstedashcbsedeshshobhsbshshobshdsecbsedddedbbbbubshshobsesaks
[eased संयम निष्कलंक च, पालनीयं त्वया सदा । वर्धनीयः परिवारः, कार्या शासनसेवना ॥१५४॥ विद्याः शिक्षाः प्रदायेति, धर्ममूर्तिश्च सूरिराट् । कल्याणसूरये प्रादात्संबोध्य परिवारकम् ॥१५५॥ सूरीशो धर्ममूर्तिश्चाऽनशनं पंचघस्रकम् । विधाय चैत्रराकाम्यां, खर्षिरसेन्दुवर्षके ॥१५६॥ पंचाशीत्यब्दकायुष्कः, स्वर्गं गतः समाधिना । अर्हदादि स्मरजैन धर्ममहाप्रभावकः ॥१५७॥ संघेन मरणस्योवं, सूरेः कार्य विधाय च । महेन स्थापिते, देवकुलिकायां च पादुके ॥१५८॥ दत्तं संघेन तत्राब्दे, मुदा कल्याण सूरये । चैत्र कृष्णतृतीयायां, गच्छाधीशपदं तदा ॥१५९॥ तच्चातुर्मासकं तत्र, सूरेः संघेन कारितम् । प्रभासपत्तने भूतो, धर्मोद्योतस्तदा महान् ॥१६॥ अग्रजकुरपालेन, सोनपालः सहाऽऽगतः। आगरावासिनौ तत्र, तौ नत्वा सूरिमूचतुः ॥१६१॥ धर्ममूर्तेर्गुरोर्वाण्या, प्रारब्धौ द्वौ जिनालयौ । पित्राऽऽवाभ्यां च नीतौ हि, प्रतिष्ठायोग्यतां मुदा ॥१६२॥ कारयितुं प्रतिष्ठां तदागराह्यपुरे प्रभो । आगच्छतु भवाञ् शीघ्र, करोतु ह्युपकारकम् ॥१६३॥ विज्ञप्त्या च तयोः सूरिः, समागादागरापुरम् । संघेन सह ताभ्यां च, प्रावेश्यतमहेन सः ॥१६४॥ सूरेः प्राप्योपदेशं हि, प्रतिष्ठाया महामहम् । धर्मप्रभावकं भक्त्या, कारयामासतुश्च तौ ॥१६५॥ राधशुक्ल तृतीयायां, वर्षे चन्द्रर्षिषक्षितौ । सार्धचतुःशती मूर्ती प्रत्यष्ठापयद्गुरुः ॥१६६॥ श्रेयांसनाथ एकस्मिन्महावीरो द्वितीयके । द्वयोमंदिरयोरेवं, संजातौ मूलनायकौ ॥१६७॥ कृतं साधर्मिवात्सल्यं, ताभ्यां दिनाष्टकं भृशम् । याचकेभ्यो धनं दत्तं, दीनोद्धारः कृतस्तदा ॥१६८॥ देवद्रव्यादिवृद्धिश्च, भृशं सूर्युपदेशतः । जिनधर्ममहोद्योतोऽभवत्तस्मिन्महोत्सवे ॥१६९॥ भूरिद्रव्यव्ययं कृत्वा, सूरीश्वरोपदेशतः । भव्यमुपाश्रयं शीघ्रं, कारयामासतुश्च तौ ॥१७०॥ गच्छाधिपतिसूरीशश्चातुर्मास व्यधान्मुदा। तयोर्धात्रोश्च विज्ञप्त्याऽभवत्तत्र प्रभावकम् ॥१७१॥ ताभ्यां सूर्युपदिष्टाभ्यां, ससंघाभ्यां ससूरिभ्यां । सम्मेतशिखरादीना, तीर्थानां यात्रकाः कृताः ॥१७२।। निष्कानां सप्तलक्षाणि, तीर्थोद्वारादिकर्मसु । प्रदत्तानि प्रधानाभ्यां, ताभ्यां सूर्युपदेशतः ॥१७३॥ विहरन्सूरिपो प्रामाद्ग्रामं भव्यान्प्रबोधयन् । वाराणसी पुरीमागान्मासं स्थितश्च बोधयन् ॥१७४॥ अथागरापुरं भूपो जहांगीरः समाययौ । दुर्जनप्रेरितः स्वीयसचिवाबाह्ययच्च द्राक् ॥१७५॥ तयोर्यवन भूपालोवग्युवाभ्यां जिनालयो । कारितौ च तयोर्मध्ये ये देवाः सन्ति ते यदि ॥१७६॥ नाश्चर्य दर्शयिष्यन्ति, घस्राणां दशके गते । प्रोक्तं नेति न वक्तव्यं, त्रोटयिष्यामि तौ तदा ॥१७७॥ चिन्तामग्नौ च तच्छृत्वा, सचिवौ तौ गृहागतौ । अस्मरतां प्रभावाढयं, सूरिंकल्याणसागरम् ॥१७८॥ वाराणस्यां स्थितं सूरिं, ज्ञात्वा च सोनपालकः । शीघ्रगत्युष्ट्रकेनागाल्लग्नं घस्रचतुष्टयम् ॥१७९॥
CD આ ગ્રી આર્ય કયાણગોતમ સ્મૃતિગ્રંથ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org