________________
hdhdbsterdasthadehatestashekshebthshobehekshddesktobedeshchdboboshshobshshobsbsbsbsesbshshshshashdhtt
चातुर्मासं च तत्रैव, कारयित्वा मुनीशितुः । सिद्धिरसरसेन्द्वब्दे, पंचम्यां श्रावणे सिते ॥१२८॥ द्वासप्तत्या शुभं देवकुलिकानां युतस्य हि । जिनालयस्य खातं च, शिलारोपणकं कृतम् ॥१२९॥ षट्शतीकार्यकर्तृणां, ताभ्यां तत्र च योजिता । कृतं साधर्मिवात्सल्यं, कृतं च दीनपोषणम् ॥१३०॥ प्रभावकाण्यनेकानि, धर्मकार्याणि चाऽभवन् । कारितानि चतुर्मास्यां, ताभ्यां सूर्युपदेशतः ॥१३१॥ ततः कृत्वा विहारं च, पालनपुरमागतः । तत्रस्थ स्वगुरोः पार्श्व, स्थितः सूरिः सवन्दनम् ॥१३२॥ गुरूणां शुभनिश्रायां, चातुर्मासं कृतं च तद् । गुरुसेवापरेणाऽतिविनीतेन च सूरिणा ॥१३३॥ तत्र यवनभूयस्य, ज्वरार्ता करिमा प्रिया । उपायैर्बहुभीरोगमुक्ता नाऽभूत्कथंचन ॥१३४॥ महाप्रभावकं सूरिं श्रुत्वा स्वपुरमागतम् । नृपेणोपाश्रयं गत्वा, व्याख्यानं च श्रुतं ततः ॥१३५॥ वृत्तान्तं प्रोच्य गच्छेशो, विज्ञप्तो ज्वरमुक्तये । विचार्य शासनोत्कीर्ति, रत्नवार्द्धिमप्रेषयत् ॥१३॥ सबालमुन्युपाध्यायो, गतो हि राजसद्मनि । प्रणतः प्रार्थितो राज्याऽऽनाययत्श्वेतवस्त्रकम् ॥१३॥ दासीहस्तेन राश्योश्च, तद्वस्त्राच्छादितं वपुः । विधाप्य मन्त्रयोगेनोत्तारयद्वस्त्रके ज्वरम् ॥१३८॥ भूम्यां निक्षेप्य चाच्छाद्य, तद्वस्त्रं पाठकोऽवदत् । यथा स्फुरति षण्मासं, स्फुरिष्यति तथैव च ॥१३९॥ निर्वरा करिमाहवा च, जाता राज्ञी हि तत्क्षणम् ।
उत्थिता प्राणमच्चाऽवग, भगवन्तारितास्म्यहम् ॥१४॥ चमत्कृतेन भूपेन, पादयोय॑स्य मुद्रिकाः । गृहाण भगवन्नेता, भवतोपकृतोऽस्म्यहम् ॥१४१॥ अस्पृष्ट्वा ता उपाध्याय, उपाश्रयं समागतः । धर्ममूर्ति गुरुं नत्वा, सर्व न्यवेदयच्च सः ॥१४२॥ .. भूप उपाश्रयं गत्वा, नत्वा गच्छेशपादयोः । द्विगुणं स्वर्णनिष्कानामस्थापयत्सहस्रकम् ॥१४३॥ सूरीन्द्रो धर्ममूर्तिश्च, तदाऽवग्जैनसाधवः । त्यक्तद्रव्या न गृह्णन्ति, यावज्जीवं च वित्तकम् ॥१४४॥ भूपालो जै नसाधूनां, प्रशंस्य निष्परिग्रहम् । श्रावकेभ्यो धनं दत्त्वा, चोपाश्रयमकारयत् ॥१४५॥ सूरिमाससुरादीनां, भूपराश्यौ प्रबोध्य च । ह्यकारयत्प्रतिज्ञां द्राक्, राज्यरं सबलाऽभवत् ॥१४६॥ गत्वा व्याख्यानके राज्ञी, नित्यं प्रभावनां व्यधात् । नालिकेरादिवस्तूनां, जैनधर्मानुरागिणी ॥१४७॥ जैनधर्मस्य तत्राऽभूदनेकधा प्रभावना । लोका धर्मरता जाता, धर्मकर्माऽभवद्बहु ॥१४८॥ चातुर्मासं विधायाऽथ प्रभासपत्तनं गतः । गच्टेशगुरुणा साधे, सूरिः कल्याणसागरः ॥१४९॥ स्मृताऽऽगतां महाकालीमपश्यन्गच्छपोऽवदत् । न पश्यामि कथं देवि त्वामहं कारणं वद ॥१५॥ देव्यवग्भवतः स्तोकमायुः पंचाह्निकं गुरो । श्रुत्वैतत्सूरिणापृष्टं, कस्मै देया सशिक्षणा ॥१५॥ विद्याः सत्परिवारश्च, गच्छाधिष्ठायिकेमया । कल्याणसूरये प्राप्तसाहाय्याय ममाह सा ॥१५२॥ वत्स दत्ता मया विद्या गगनगामिनी तथा । ह्यदृश्यकारिणीत्याद्या, व्यापार्या धर्मकर्मणि ॥१५३॥
મશી શ્રી આર્ય કયાણ ગૌતમસમૃતિ ગ્રંથ
)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org