________________
[s]
| চওভf a of fasta chshchhaah shasht************cccccccccccbbbbbbbba
ततो विहृत्य धर्मात्मा, सूरिः कल्याणसागरः । वेदेषुरसचन्द्रेऽध्दे, कच्छदेशं समागतः ॥ १०१ ॥ तत्र प्रबोधयन्सूरिः, भव्यान्विधाय दीक्षितान् । भुजाह्वनगरेऽच्छन्महोत्सवेन भूयसा ॥ १०२ ॥ वातरोगेण दुःखार्तो, भारमल्लाब्धभूपतिः । तत्राऽऽसीत्तेन सूरीशः, श्रुतो महाप्रभावकः ॥ १०३॥ प्रधानान्प्रेष्य भूपेनाऽऽहूतः सूरिः समागतः । काष्टपट्टे ससत्कारं राज्ञा समुपवेशितः ॥ १०४ ॥ वातव्याधिमगच्छन्तं, स्वदेहस्थं निपीडकम् । निवेद्य रोगमुक्त्यर्थं सूरिर्नृपेण याचितः ॥ १०५ ॥ शासनस्य हितं दृष्ट्वा, सूरिमन्त्रेण मन्त्रितम् । नृपदेहे जलं सूरिरसिञ्चतेन तत्क्षणम् ॥१०६॥ वातमुक्तोऽभवद्भूपः, प्रोत्थायाऽऽशु चमत्कृतः । मत्वा महोपकारं च पतितः सूरिपादयोः || १०७ ॥ सूरिं वर्धाप्य मुक्ताभीराश्यो मुदमधुर्भृशम् । भूपोऽवग्भूरिदुःखाद्धि, भवता मोचितोऽस्म्यहम् ॥१०८॥ निष्कानेकसहस्रं च, दातुमानाययन्नृपः । अवग्न साधुभिः सूरि-देव्यं संगृह्यते कदा ॥ १०२ ॥ प्रशंस्य जैनसाधूनां, निस्पृहत्वं च भूपतिः । तद्द्रव्यं श्रावकेभ्यो हि प्रायच्छधर्मकर्मणे ॥११०॥ सूरिरुपविष्टो यस्मिन्काष्टपत्रं च तं ददौ । पट्टः सोऽद्याऽपि संरक्ष्य, स्थापितोऽस्ति छुपाये ॥ १११ ॥ यूयं किंचिच्च याचध्वं, भूपेन कथिते तदा । प्रोवाच करुणां भोधिः, सूरिः कल्याणसागरः ॥ ११२ ॥ जैनपर्युषणे राज्ये, जगन्महोपकारिणि । प्रतिवर्षं विधग्प्या चाऽहिंसा नृप दिनाष्टकम् ॥११३॥ सुरामांसे न भोक्तव्ये, न कार्यं जीवपीडनम् । सुखसंपत्तिहं राजन्त्वयाऽपि सुखकांक्षिणो ॥११४॥ प्रतिपन्नं च तद् राज्ञा, ताम्रपत्रे ह्यलेखयत् । अमारीपालनं राज्ये, पर्युषणे दिनाष्टकम् ||११५|| राजविहारनामानं कारयित्वा जिनालयम् । दत्त्वा संघाय भूपालोऽनृणममन्यत स्वकम् ॥ ११६॥ महाप्रभावना जैनशासनस्य तदाऽभवत् । चातुर्मासं कृतं तत्र, राजमान्येन सूरिणा ॥११७॥ ततस्त्रयोदश वर्षान्यावद्विहृत्य सूरिणा । कच्छदेशे कृतो धर्मप्रचारो हि स्थले स्थले ॥११८॥ दीक्षिताः प्राप्तवैराग्याः, पुरुषाः पंचसप्ततिः । सपादं च शतं नार्यः, सूरिणा स्त्रोपदेशतः ॥ ११९ ॥ कृताः सम्यक्विनो भूरि, द्वादशत्रतधारकाः । त्रयोदश प्रतिष्ठाश्च, कारिता जिनसद्मनाम् ॥१२०॥ गुणान्बुद्धिं निरीक्ष्याशु, जसवंतेन भूभुजा । विधत्तौ वर्धमानश्च पद्मसिंहः स्वमन्त्रिणौ ॥ १२१ ॥ इतो जामपुरे प्रोक्तं, पद्मसिंहस्य भार्यया । वर्धमानाय भो श्रेष्ठिन्कथं प्रमाद्यतेऽधुना ॥१२२॥ लक्ष्मीश्चला चलं चास्ति, जीवितं किं न ज्ञायते । शीघ्रं लक्ष्मीर्हि धर्तव्या, सौख्याय धर्मकर्मणि ॥ १२३ ॥ वर्धमान उवाचैवं, वत्से साधु प्रबोधितम् । सत्याऽसि कमलादेवी, त्वमस्मदालये शुभे ॥१२४|| पद्मसिंह प्रबोध्याऽऽशु, वर्धमानेन तत्क्षणम् । कल्याणसागरः सूरिराहूतः कच्छदेशतः ॥ १२५ ॥ ग्रामाद्ग्रामं व्रजन्सूरिर्जामपुरं समाययौ । श्रेष्ठिभ्यां च ससंघाभ्यां सूरिः पुरं प्रवेशितः ॥ १२६ ॥ सूरीश्वरोपदिष्टाभ्यां ताभ्यां महज्जनालयम् । कारयितुं मनः कृत्वा, तत्सामग्रयश्च मेलिताः ॥ १२७॥
શ્રી આર્ય કલ્યાણૌતમ સ્મૃતિગ્રંથ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org