________________
dastebesteedtestes de
dostatesbostoso desbotas dedastesteste destestest test de stad stastasedastasesedo dovtedadadadade sastostadastes
1941
पूज्याऽस्मद्भावना जाता, विधातुं द्वौ जिनालयौ । प्रशंसितौ च सूरिणा, ताभ्यां महोत्सवः कृतः॥७४॥ द्वयोः प्रासादयोस्तस्मिन् , खेषुरसेन्दुवर्षके । मृगशीर्षाऽसिते पक्षे, नवम्यां खातकं कृतम् ॥७५॥ चापसिंहाभिधो भ्राता, संधपत्योस्तृतीयकः । श्वसुरस्तव्युतस्याऽस्ति, राजसिंहाभिधो धनी ॥७६॥ जिनालयस्य तेनाऽपि, त्रयोदश्यां च खातकम् । कल्याणसागराचार्यापदेशेन कृतं शुभम् ॥७७॥ कृता प्रदक्षिणा तीर्थराजस्य सह यात्रिकैः । कदम्बहस्तगिर्यादितीर्थयात्रा कृता वरा ॥७८॥ चिल्लणाह्वसरः स्पृष्ट्वा, गत्वा शत्रुजयी नदीम् । स्नात्वा तत्र च तीर्थेशपूजा ताभ्यां कृता वरा ॥७९॥ भक्तिश्च साधुसाध्वीना, वस्त्रपात्रादिना कृता । यात्रिकस्वजनानां च, परिधापनकं कृतम् ॥८०॥ कर्मकृद्याचकेभ्यश्च, दत्तं दानं यशस्करम् । तीर्थीद्धारादिकृत्येषु, वित्तं दत्तं निरर्गलम् ॥८१॥ महती शासनस्यैवं, कुर्वाणौ च प्रभावनाम् । संघेन सूरिणा युक्ती, जामपुरं समागतौ ॥८२॥ जसवंतनृपः संघ, प्रावेशयत्सगौरवम् । नगरं संघनाथाभ्यां, नेपथ्यं प्रवरं ददौ ॥८३।। संघेशाभ्यां च भूपाय, दत्तो वोपहारकः । सत्कृत्य बहुमानेन, यात्रिसंधो विसर्जितः ।।८४॥ द्वात्रिंशल्लक्षमुद्राणां, यात्रासंघे व्ययः कृतः । ताभ्यां धन्यतमाभ्यां च, धनं जन्म पवित्रितम् ॥८५।। तस्मिन्पुरे नृपादेशास्थितौ तौ श्रेष्ठि पुंगवौ । व्यापारं धर्मकार्य च, कुर्वन्तौ सपरिच्छदम् ॥८६॥... स्थितास्तत्रौशवंशीयाः, सहस्राणां च पंचकम् । कच्छदेशं ययौ सूरीश्वरः कल्याण सागरः ॥८७॥ ग्रामाद्ग्रामं व्रजन्सूरिददन्महोपदेशकम् । पुरे जखौ चतुर्मासी, स्थितः संघाग्रहेण च ॥८८॥ महोपाध्यायरत्नाब्धेः, पितृव्यरणसिंहकः । तेन भक्तिः कृता वर्या, स्वीकृता द्वादशव्रती ॥८९॥ ततः कृत्वा विहारं च, ग्रामे ग्रामे प्रबोव्य च । लोकान्धर्मकराञ्चक्रे, लोकोपकारिसूरिराट् ॥९॥ सूर्युपदेशतो जामनगरे राजसिंहकः । तेजसिंहपितुः शान्तिनाथजिनालयस्य च ॥९१॥ परितोऽकारयदेवकुलिकाश्चौमुखं तथा । पृष्ठे जिनालयं पश्चाच्छ्रीमांढाभलसाणयोः ॥९२।। जिनालयौ विधाप्याऽऽशु, कालावडे मयांतरे । उपाश्रयौ च निर्माप्य, सूरिं न्यमन्त्रयत्तदा ॥९३॥ कच्छदेशात्समागच्छत्सूरिः कल्याणसागरः । पुरं प्रवेशितस्तेन, श्रेष्ठिवर्येण सोत्सवम् ॥९॥ जिनप्रासादयोः श्रेष्ठिना मांढाभलसाणयोः । प्रतिष्ठा कारिता, सूरेः पार्थाद्वर्यमहोत्सवां ॥९५॥ श्रेष्ठिना सूरिसद्वाण्या, यात्रा शत्रुजयस्य च । संघं लात्वा कृता, तस्यां द्विलक्षस्य व्ययः कृतः ॥९६॥ चातुर्मासं कृतं जामनगरे सूरिणाऽऽग्रहात् । श्रेष्ठिनः संधयुक्तस्याऽक्षीपुरसेन्दुवर्षके ॥९७॥ ततो रैवततीर्थस्य, यात्रां कृत्वा च सूरिणा । सौराष्ट्रे भव्यजीवानामुपदेशः कृतो महान् ॥९८॥ प्रबोधं तेन संप्राप्ता, दीक्षिता बहवोऽभवन् । ससम्यक्त्वाश्च केचित्तु, द्वादशव्रतधारकाः ॥९९॥ धर्म प्रचारयन्सूरिः, प्रभासपत्तनं गतः । संघाग्रहास्थितस्तत्र, चतुर्मास्यां विबोधकृत् ॥१०॥
એ શીઆર્ય ક યાણ ગૌતમસ્મૃતિ ગ્રંથ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org