________________
[18] teststestesteskeskuksesstektskadest
- b
a kkesteskeest*sketeste destestetestste beste testosteskoleskesestestele laste testestestestosteste
त्रिशती सूदकाः पंचाशत्प्रत्येकं च वाद्यकाः । संगीतका अयस्काराः, सिवः संघे च तक्षकाः ॥४७॥ संघेशेनोपदां दत्त्वा, प्रार्थितो जामभूपतिः । जसवंतादिसिंहश्च, संघरक्षाकृते तदा ॥४८॥ संधं सन्मान्य भूपेन, गजाश्वरथसैनिकाः । दत्ताः प्रोक्तौ च संघेशो, यात्रां कृत्वा च भोः शुभौ ॥४९॥ नगरे मे समागम्यं, स्थातव्यं व्यवहारकम् । कर्तव्यमर्धशुल्कं च, मे देयं कच्छशुल्कतः ॥५०॥ प्रतिपन्नं च श्रेष्ठिभ्यां, ततः संघस्य कारितम् । प्रयाणं प्रार्थितः सूरिः शिबिका स्वीचकार न ॥५१॥ तत्स्वर्णशिबिकायां, सच्छास्त्रं प्रस्थापितं मुदा । संघयोग्योपदेशाश्च प्रदत्ताः सूरिणा पथि ॥५२॥ तैश्च सूर्युपदेशैर्हि, सोद्यमा धर्मकर्मसु । संघपौ यात्रिकाः सर्वे, स्वस्वकार्यरता बभुः ॥५३॥ स्थाने स्थाने च सत्कारं, लभमानः पथि प्रजन् । जीर्णोद्धारादि कुर्वाणः, संघो भाद्रनदी ययौ ॥५४॥ नद्यास्तटे स्थितः संघो, रात्रौ निष्ठुरशब्दकम् । श्रुत्वोत्थाय च सूरिणा, संघेशपटमंडपे ॥५५॥ भैरवमिथुनं दृष्ट्वा संघपाशुभसूचकम् । स्मृताऽऽगता महाकाली, पृष्टतद्वक्ति कि शुभे ॥५६॥ प्रोचे देवी च संघेशी, प्रगे पूज्य त्वया सह । नेयौ तवप्रभावेण, महाकष्टं प्रणश्यति ॥५७॥ संघयौ सूरिणाऽऽहूतौ, पौषधं ग्राहितौ मुदा । सहानीतौ प्रयाणे च, हर्षेणाऽचलतां हि तौ ॥५८॥ मोजलराजपुत्रस्य, सरित्परतटागतां । हस्तिनी वीक्ष्य संघेश-गजोऽधावच्च कामयुक् ।।५९।। धावन्पथि रयेणाऽऽश्वास्फालितो वटशाखया । शतखंडोऽभवद्भस्तिपीठस्थसंघपालयः ॥६॥ वृक्षान्तः शृंखलास्तस्य, गुम्फिता निःसरन्ति न । भ्रमन्हस्ती मदोन्मत्तो, गाढं बद्धस्तदा स्थितः ॥६॥ आगत्य यात्रिकास्तत्र, वीक्ष्य तत्तादृशं तदा । बालसूरि प्रशंसंति, संवेशप्राणदायकम् ॥६२॥ श्रेष्ठिपत्न्यौ प्रवर्धाप्य, मौक्तिकैर्बालसूरिपम् । सूरेविज्ञाय वृत्तान्तममन्येतामुपकृतिम् ॥६३॥ ततः कृत्वा प्रयाणं च, यात्रासंघो पथि भृशम् । स्थाने स्याने प्रकुर्वाणः, शासनस्य प्रभावनाम् ॥६४॥ शत्रुजयमहातीर्थ प्राप्तो मासेन हर्षितः । तीर्थपूजां व्यधात्पूजाद्रव्यैर्भक्त्या विधियुताम् युग्मम् ॥६५॥ सूरिणा सह संघेशी, वजन्तो तीर्थमूर्धनि । सूरिदर्शितस्थानान्यवंदेतां पथि भावतः ।।६६॥ तीर्थमूर्ध्नि स्थितान्जैनप्रासादान्प्राप्य हर्षितौ । आदिनाथं प्रणम्याशु, जन्मसाफल्यतां गतौ ॥६७॥ वर्धयित्वा सुवर्णादिपुष्पैरादिजिनेश्वरम् । संधेन सहितौ तौ च, परमानन्दतां गतौ ॥६८॥ प्रदक्षिणां च कुर्वन्तौ, प्रणमंतौ जिनेश्वरान् । इभ्यौ प्रियंगुसंसिक्तावभूतां सूरि श्लाधितौ ।।६९।। उपरिस्था जिनाः सर्वे, वंदिताः पूजिता मुदा । प्रमोदं परमं प्राप्तं, ताभ्यां वाचामगोचरम् ॥७॥ तीर्थमालापरिधानं, सूरिणा कारितं तयोः । जिनालये ध्वजारोपः, कृतः ताभ्यां प्रहर्षिभ्याम् ॥७१॥ वर्धितं दे गद्रव्यादि, दानोद्धरणकं कृतम् । कृतं साधर्मिवात्सत्यं, ताभ्यां सूर्युपदेशतः ॥७२॥ तीर्थे जिनालयान्दृष्ट्वा, तत्कारकप्रशंसनम् । कृत्या संधपतिभ्यां च, सूरिः प्रोक्तः सुभावतः ॥७३॥
-
2) મા (આર્ય કલ્યાણગૌતમ ઋતિગ્રંથ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org