________________
desesesesterestenesdesistasseslestendeseseisesesesesesurfastesesesterestedasetdesledeseskolasedesesesesesedeodeseoesbslesedesesesesesel231
उपाध्यायश्च रत्नाधिनियाब्धिश्च सूरिणा । शिष्यौ कल्याणसूरेश्च, महोपाध्यायको कृतौ ॥२१॥ शास्त्रज्ञं गुणिनं धीरं, विद्वद्वर्य प्रभावकम् । नव्यसूरिं विनीतं तं, लोकोपकारहेतवे ॥२२॥ विद्येशः काश्चन विद्या, दत्त्वा पदधरान्मुनीन् । दत्त्वा शिक्षां च गच्छेशो, ह्यकारयद्विहारकम् युग्मम् ॥२३॥ साधूनां परिवारेण, वेष्टितो बालसूरिराट् । कच्छदेशोरुभाग्येनाऽचलत्कच्छं प्रति प्रधीः ॥२४॥ विहारं कुर्वता तेन, प्राप्ता भद्रावती पुरी । प्रासादधनधान्याढया, विपणिश्रेणिशोभिता ॥२५॥ .. भद्रेश्वराख्यतीर्थनाऽलंकृतोपाश्रयादिना । धर्मज्ञानक्रियावर्या, श्रेष्ठिसज्जनपूरिता युग्मम् ॥२६॥ इतः कच्छाऽबड़ासाख्ये, प्रदेश आरिखाणके । ग्रामेऽभूदमरसिंहः, श्रेष्ठी वणिग्वरो गुणी ॥२७॥ तत्पुत्रौ वर्धमानश्च, पद्मसिंहश्च सज्जनौ । कार्य धर्मादि कुर्वाते, स्नेहबद्धौ परस्परम् ॥२८॥ विधिपक्षं च रक्षन्ती, महाकाली सुरी तदा । योगिरूपेण तत्राऽऽगाद्भिक्षार्थ याचितौ तया ॥२९॥ ताभ्यां तद्वचनं श्रुत्वा, दत्त्वा भोजनमुत्तमम् । हठं गत्वा च मध्याह्ने, गृह आगमनं कृतम् ॥३०॥ . विधाय भोजनं योगी, गतः कुत्राऽप्यलक्षितः । माषषट्के गते योगिस्थाने सुवर्णभाजनम् ॥३१॥ निरीक्ष्य विस्मितौ तौ च, भ्रातरौ तत्र भाजने । वीक्ष्य सिद्धरसं तुम्बखण्डानस्मरतामृषिम् ॥३२॥ योगिनोपरिबद्धं तद्विस्मृतं तुम्बकं भवेत् । मत्वा रसेन लिप्तानि, ताभ्यां भाजनकानि च ॥३३॥ सौवर्णानि निरीक्ष्याशु, तानि सर्वपरिग्रहम् । गृहीत्वा चागतौ भद्रावती तौ सपरिच्छदौ ॥३४॥ . व्यापार तत्र कुर्वन्तौ, संघमुख्यौ धनाधिपौ । संजातो त्वरितं तौ च, बालमूरिस्तदाऽऽगतः ॥३५॥ सूरेरागमनं श्रुत्वा, संघेन हर्षितेन सः । सूरिः प्रवेशितः पुर्या', महामहेन सद्गुणी ॥३६॥ प्राज्ञेन सूरिणा दत्ता, देशना तत्र बोधदम् । श्रीशत्रुजयतीर्थस्य, माहात्म्यं वर्णितं भृशम् ॥३७॥ प्रबुद्धवर्धमानेन, श्रेष्टिनोत्थाय सूरिराट् । प्रार्थितस्तीर्थयात्रायै, सार्ध चलत हे प्रभो ॥३८॥ यूयं चलत यात्रायै, मथि कृपां विधाय भो । तेनेति प्रार्थिता लोकाः, प्रोद्यताश्चलनेऽभवन् ॥३९।। जनान्संप्रेष्य विज्ञप्तिः, कारिता तेन यात्रिकाः । आगता ग्रामदेशेभ्यो, भद्रावत्यां समुत्सुकाः ॥४०॥ पंचदशसहस्राणि, यात्रिकानां तदाऽभवन् । विधाय संघसामग्री_तरौ मुदितौ भृशम् ॥४१॥ भोजनोदिव्यवस्थायां, नियुक्तो राजसिंहकः । संबंध्युदारचेताः सः, शोभनां तां व्यधाधनी ॥४२॥ प्रवहणैः समुद्रं चोत्तीर्याऽऽगतौ ससंघको । बंदरे नागनानाम्नि, वस्त्रावासेषु च स्थितौ ॥४३॥ तत्राऽऽगाद्विहरन्सूरिः, परिवारेण भूयसा । मुनीनां द्विशती संघे, साध्वीनां त्रिशती ह्यभूत् ॥४४॥ अश्वा. नवशतान्यश्वेतराः सहस्रकं गजाः । नव पंचशतान्युष्ट्रास्तावद्रथाश्च गन्त्रिकाः ॥४५॥ शतानि सप्त साधं च, पटवासकृतः शतम् । प्रत्येकं बन्दिनो योद्धा, नापिता अभवन्शतम् ।।४६।।
આ આર્ય કયાણામસ્મૃતિ ગ્રંથ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org