________________
.
، ، ، ، ، ، ، دانه ، ، ، ، ، ، ، ، ، ، ، ، ، ، ، ، ، د بره . .
، ، ، ، ،
، ، ، ، ، ، ، ، ، ، ، ، ا، ب، ،،، ،،، دانا، ،
، ، ، ، ، ،
!دوای
धिष्ठायिका-महाकालीदेवी स्मृता । देवी प्रत्यक्षीभूता सूरिं नत्वा किं स्मरणकारणमस्तीति पृच्छति स्म । ततः सूरिणा प्रोक्तम्-बालस्य हरणं संजातं, तं बालं मह्यं समर्थ पश्चाद् यथास्थानं गंतव्यम् । तन्निशम्य देवी सबालां तां दुष्टां महिला संशोध्य, तां दुष्टां चपेटादिभिस्ताडयित्वा, निर्भय॑ च बालं गृहीत्वा सूरये च समर्प्य स्वस्थानं गता ।
ततः सूरिणा तस्य बालस्य उपरि साशिर्वासक्षेपः कृतः, कथितं च-साशिर्वचन-वासक्षेपस्य प्रभावेणायं बालो यस्य कस्य जनस्य स्वहस्तस्पर्श करिष्यति तस्य रोगा नाशं गमिष्यन्ति विषं चापि नाशं यास्यति । इति प्रोच्य हमीरनृपस्य समर्पितः । ततः सूरिवरोपदेशेन सपरिवारेण हमीरभूपालेन जैनधर्मः स्वीकृतः । सम्यक्त्व सहितानि द्वादशवतानि स्वीकृतानि । धर्मकार्येषु प्रभूतं धनव्ययं कर्तुं लग्नेन हमीरपुत्रेण जेसिंघाऽपरनाम्ना जयसिंहेन श्रीआर्यरक्षित सूरिवरोपदेशेन श्रीशत्रुजयमहातीर्थस्य महासंघो निष्कासितः । तस्मिन् यात्रिकसंघे तेन बहुधनव्ययः कृतः, सुवर्णनिष्कानां च भूरिदानं दत्तं, चतुरशीते गच्छानां च श्रमणश्रमणीभ्य उदारचेतसा बहूनि वस्त्रयात्रादीनि वस्तूनि प्रदत्तानि । तेन जयसिंहेन श्राआर्यरक्षितसूरीश्वरोपदेशेन बहूनि जनशास्त्राणि लेखितानि, बहुप्रकाराणि च धर्मकार्याणि कृतानि ।
विद्यामंत्रसमृद्धेनाचार्य श्रीआर्यरक्षितसूरिवरण स्त्रोपदेशनिर्मापितानां पृथक्-पृथक् स्थानदेशेषु च स्थितानां चतुर्दशजिनालयानां प्रतिष्ठासु स्वनिश्रा एकस्मिन्नेव दिवस एकस्मिन्नेव समये दत्ता । अत्रैवं ज्ञातव्यं यच् श्रीआर्यरक्षितसूरयः चतुर्दशसु जिनालयेषु प्रतिष्ठासमये स्वयं विद्यमाना अभवन् ।
एतादृशानां जिनशासनप्रभावकानां महात्यागिनां तपस्विनामचलगच्छापरनामविधिपक्षगच्छाधिपतीनां परिवारे लक्षक्षत्रियप्रतिबोधको महाशासनप्रभावकः प्रथमपट्टधर आचार्यवर्य श्रीजयसिंहसूरिवर्य आसीत् । श्रीजयसिंहमूरिमुख्या द्वादश सूरय आसन् । विंशतिरूपाध्यायपद धारिणः, सप्ततिः पंडितपदधारिण आसन् । सर्वसाधव एकविंशतिशतान्यासन् । तथा साघीसमुदाये त्र्यधिकशतं महात्तरापदधारिण्यो, द्वयशीतिः प्रवर्तिनीपदधारिण्यश्च साध्य आसन् । सर्वाः साध्व्य एकादशशतान्यासन् ।
पृथ्वोपाठे भूरि धर्मप्रचारं कृत्वा प्रान्ते स्वमुख्यशिष्य-पट्टधराय श्रीजयसिंह सूरिवराय विधिपक्षगच्छसमुदायस्य भारं विद्यामंत्राणि च समर्प्य योग्यां शिक्षा ददौ । ततः पावकगिरावनशनं कृत्वा सप्तदिवसान्ते क्षमित चतुरशीतिलक्षजीवयोनियुत्सृष्टादशपापस्थानको गृहीतार्हत्सिद्धादि चतुः शरणः षत्रिं यदधिक द्वादशशतविक्रमार्कवर्षे शतवर्षायुष्कः समाधिना कालं कृत्वा स्वर्ग गतः ।
આ ગ્રી આર્ય કયાગૌતમસ્મૃતિગ્રંથ રચી
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org