________________
[१०] uksebedeshe sekashant
tbsesedesksksksksbsesedeshestedesdesheedashshsedesedestoseshsedodesededesese-lesesedesdeseseshshsebedeoboostedesseshddashi
अथ तस्य भूपस्य राज्यसिंहासने श्रीकुमारपालो भूपत्वे अभिषिक्तः । स कुमारपालभूपतिः - श्रीहेमचंद्रसूरिणा जैनधर्मं प्रापितः । ततः कुमारपालभूपालः सम्यक्त्वसहित द्वादशव्रतधारी परमश्राव
कोऽभवत् । तेन नृपेण स्वदेशेषु च अन्यदेशेषु च तथा जीवरक्षा कार्याणि कृतानि सन्ति यथाऽन्यः कोपि भूपः तथा जीवरक्षां कर्तुं प्राग् न प्रवृत्त आसीत् । भविष्यकालेऽपि तथा न प्रवर्तिप्यते इति श्रीहेमसूरिणा तस्यं प्रशंसा कृता, तस्मै कुमारपालाय, तद्गुणैराकर्षितेन तेन ‘परमार्हतः परनारीसहोदरो धर्मात्मा' इति नामानि दत्तानि ।
अन्यदा कुमारपालभूपतिना श्रीआर्यरक्षितसूरेमहाप्रभावकत्वं, महावैरागित्वं च श्रुत्वा आर्यरक्षितसूरिवर आकारितो, महोत्सवेन च पुरं प्रवेशितो, भावेन च वंदितः । अन्यदा सभायामुपविष्टयोः सूरिबरयोस्तत्रागतेन कपर्दिव्यवहारिणोत्तरासंगस्यांचलेन भूमि प्रमाय॑ वंदना कृता । तदा तत्रोपविण्टेन कुमारपाल धरापालेन श्रीहेमचंद्रसूरिवरः पृष्टो-भगवन् वस्त्रांचलेन भूमिप्रमार्जनविधिरपि शास्त्रे विद्यते किम् ? हेमचंद्रसूरिणा प्रोक्तम्-राजन् एष विधिरपि शास्त्रे वर्तते । तन्निशम्य हर्षितेन राज्ञा श्रीआर्यरक्षितसूरेः परिवारस्यैते अंचलगच्छीया इति प्रोक्तम् । तत एष गच्छोऽञ्चलगच्छनामाऽपि बभूव ।
_ विक्रमस्य दशाधिकद्वादशशतवर्षे मरुभूमौ भिन्नमालपुरस्य नाऽतिदूरे रत्नपुरं वर्तते । तस्मिन् - हमीरनामा राजा राज्यं पालयति । तस्य नृपस्य जरासिंघनामा समर्थः पुत्र आसीत् । तदा पारकर। देशे भद्रेसरनगरे भारमल्लनृपः पृथ्वीपतिरासीत् । तस्य सरस्वतीनाम्नी महास्वरूपवती विनयवती
निष्णाता च पुत्री बभूव । तस्या विवाहः रत्नपुरस्य राजकुमारजयसिंघापरनाम्ना जयसिंहेन कुमारण , सह अभवत् । तदा तस्या विवाहे पित्रा नवलक्षद्रव्यत्ययः कृतः । तेन तस्या नवलखीति नामाऽपि बभूव । क्रमेण तस्या एकः पुत्रः स मुत्पन्नः । तदा सिंधुदेशे मुगलगोष्ठनगर एका दुष्टस्वभावा महिला मंत्रतंत्रादिशक्त्याऽनेकबालकपशुपक्षिमनुष्यानां हिंसां कुर्वन्ती त्रासं प्रवर्तयामास । तया दुष्टमहिलयैका देवी समाराधिता । तया देव्या प्रत्यक्षीभूय तस्यै प्रोक्तम्-यदि त्वं मह्यमभिजिन्नक्षत्रजातं कमपि द्वात्रिंशल्लक्षणं बालं बलिदानत्वेन दद्यास्तहि तवोपर्यहं प्रसन्ना भवामि । इति निशम्य तया दुष्टया तादृशस्य बालस्य गवेषणं कुर्वत्या रत्नपुरे जयसिंह सरस्वत्यो लिस्तथाविधो दृष्टः । ततस्तया दुष्टया मार्जारीरूपेण तं बालं गृहीत्वा ततः पलायनं कृतम् । तदा राजभवने नगरे च हाहाकारः संजातः । ___एतस्मिन्नवसरे महाप्रभावका महात्यागिनः श्रीआर्थरक्षितसूरयस्तत्र समागताः । तै लॊकान् निरानन्दान् दृष्ट्वा पृष्टम् । लोकै राजबालहरणवृत्तांतः कथितः । ततो रत्नपुरनृपेण हमीरक्षत्रियेण महाप्रभावकस्य सूरिवरस्यागमनं निशम्य सूरिवरस्य समीपे समागम्य हृत-बाल---गवेषण--कृते विज्ञप्तिः कृता । नृपस्य विज्ञप्तिं निशम्य, तेन कार्येण च जैनधर्मस्य प्रभावनां ज्ञात्वा, सूरिवरणाऽचलगच्छा
2
. શ્રી આર્ય ક યાણગૌતમસ્મૃતિ ગ્રંથ
..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org