________________
da ste de de de de de de de de të dhe t[]
निरीक्ष्य विषण्णा सन्तो यज्ञमंडपमपवित्रं मन्यमाना नदीं गत्वा स्नात्वा राजसभायां समुपविष्टनृपसमीपं गत्वा प्रोचुः– पृथ्वीप, यज्ञमंडपे धेनुर्मृता पतिताऽस्ति तेन यज्ञमंडपोऽपवित्रः संजातः । अथ यज्ञो कथं संपूर्णो भवेत् ? पुत्रकामेष्टियज्ञः कस्यचिदपि कृते एकवारमेव कर्तव्य एतादृशी शास्त्राज्ञाऽस्ति । नृपेण प्रोक्तम् एष यज्ञः कथं पूर्णो भवेत् : तदा विप्रैः कथितम् - यदि सा धेनुर्जीवन्तीवोत्थाय यज्ञमंडपात् गच्छेत् तर्हि यज्ञः पूर्णो भवेदन्यथा न हि । नृपेणोक्तम् - एवं कथं भवेत् ? विप्रैः कथितम् - एतादृशः कोऽपि मंत्रज्ञो यदि लभ्यते तर्हि यज्ञः संपूर्णो भवेत् । तन्निशम्य भूपालेन प्रोक्तम् - सदस्या, एतादृशो विद्यामंत्रज्ञः कोऽपि दृष्टः श्रुतो वा यदि युष्मासु केनाऽपि तर्हि वदत । तन्निशम्य केनापि किमपि तद्विषये न कथितम् । तदा भूपेनोदयमंत्रिणं प्रेष्य तदा तत्रस्था श्रीहेमचंद्रसूरय आकारिताः । ते तत्र समागत्य धर्मलाभाशिषं ददुः । भूपालेन सर्ववृत्तांतं कथयित्वा तथाविधः कोऽपि विद्यामंत्रज्ञोऽस्ति न वा ? यद्यस्ति तदा स कोऽस्ति, कुत्रास्ति तत्कथयतेति प्रोक्तम् । तदाकर्ण्य श्रीहेमचंद्रसूरिणा प्रोक्तम्-अधुना अस्मिन्नेव नगरे श्रीविधिपक्षगच्छस्याचार्याः श्रीआर्यरक्षितसूरयो विद्यमानाः सन्ति । ते विद्यामंत्रज्ञाः, परकायाप्रवेशिनीं विद्यामपि जानन्ति । परकायप्रवेशिनीं विद्यां विनैतत्कार्यं न भविष्यति । तन्निशम्य भूपेन प्रोक्तम् - एते सूरयस्तु मयैवाऽत्रनगरे समाकारिताः सन्ति । ततो हेमचंद्रसूरिं सन्मानपूर्वकं विसर्ज्य सपरिवारो भूपतिः यत्र श्रीआर्यरक्षितसूरयः सन्ति तत्र समागत्य प्रोवाच भगवन्तो, मया यूयमत्राssकारिताः परन्तु पश्चात्पृच्छापि न कृता, क्षमावन्तो भवन्तो ममापराधान् क्षम्य - ताम् । सूरिवरेण प्रोक्तम् - न कोऽपि तवापराधो वयं तु तव साहाय्येन ज्ञानदर्शनचारित्रस्याऽऽराधनां निर्विघ्नतया कुर्मः । तदाकर्ण्य तेषां प्रशांततादिगुणैः प्रभावितेन नृपेण सूरिवराणां यज्ञस्य वृत्तान्तं प्रोच्य यज्ञमंडपान्मृतां धेनुं जीवन्तीव निष्काशयतेति प्रार्थना कृता, सूरिवरेण जैनधर्मस्य विशिष्टता ज्ञापनार्थ सा विज्ञप्तिः स्वीकृता । ततो नृपः सपरिवारः सूरिवरं प्रणम्य गतः । सूरिः शिष्यान् वृत्तान्तं प्रोच्या-पवरके स्वदेहं मुक्त्वा स्वयं तस्मान् निर्गत्य, यज्ञमंडपे पतितां मृतां धेनुं प्रविष्टः । ततः सा धेनु जीवन्तीव तत उत्थाय यज्ञमंडपाद् दूरं गता, ततः स्वयं तस्या निर्गव्य, स्वशरीरे प्रविश्याऽपवरकान् निर्गत्य, स्वपरिवारं धर्मं च रक्षति स्म । अथ सूरिवरस्य एतन्महाकार्यं निरीक्ष्य साश्चर्यः सपरिवारो भूपः सूरिपार्श्वे समागत्य वंदनं प्रशंसां च चकाराकथयच्च भगवंतो, यूयं वचनपालने निश्चलाः बभूवुस्तस्माद् युष्माकं परिवारोऽचलत्वेन प्रसिद्धो भवतादिति प्रोच्य सूरिवरप्रभावेण प्रभावितः सन् प्रणम्य स्वस्थानं गतो यज्ञकारका विप्रा अपि चमत्कारं प्राप्ताः संतो यज्ञकार्य पूर्ण कृत्वा जैनाचार्य प्रणम्य प्रशस्य च स्वदेशे गताः । श्रीसिद्धराजजयसिंहभूपस्य पुत्रो न संजातः । स पुत्ररहित एव मरणं प्राप्तः ।
શ્રી આર્ય કલ્યાણ ગૌતમ સ્મૃતિગ્રંથ
oschotash chofastest states
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org