________________
12
deslodastadostoute de todos estostestedadlastestostogastostado de stocastegaseste de sesosasta stasta sada glasbode stadtestosteste de desesta stast testostadostastest
समंत्रं कृत्वा समग्रनगरे तज्जलमाछोटितुं समादिष्टम् । नृपेण तथैव कारितम् । तेन नगरान् मारी गता शांतिश्च संजाता । तादृशमाचार्याणां प्रभावं दृष्ट्वा चमत्कृतो भूपः सूरिपार्थे समागत्य तेषां चरणयोः सुवर्णराशिमस्थापयत् । निःस्पृहत्वेन सूरिणा तद्रव्यं न स्वीकृतं परं नृपेणात्याग्रहे कृते, श्रावकेभ्यस्तद् दापयित्वा तेन द्रव्येण श्रीशान्तिनाथ प्रासादः कारितः । महीपालनृपेग जैनधर्मः स्वीकृतः । सम्यक्त्वसहितानि द्वादश व्रतानि च स्वीकृतानि । ततो धरणाकमंत्रिणा महीपालनृपस्य स्वपुत्री परिणायिता । श्री आर्यरक्षितसूर्युपदेशेन च स्वौशवालज्ञात्यां महीपालनृपः प्रवेशितः । नृपस्य धर्मदासनामा पुत्रः चंदेरीपुरीस्वामी संजातः। सूर्युपदेशेन च सम्यक्त्व सहित द्वादशवतधारी श्रावकोऽभवत् । स पुत्ररहित आसीत् । तेन सूरिकथनेन गोत्रदेवी समाराधिता । ततस्तस्य पंचपुत्राः संजाताः ।
अन्यदा तेन दिल्लीपतेः पृथ्वीराजनृपस्य बहुसन्मानं प्राप्तम् । ततस्तेन पृथ्वीराजभूपालस्य पुरतः श्रीआर्यरक्षितसूरेविशिष्टं माहात्म्यं वर्णितम् । तन्निशम्य पृथ्वीराजधरापालेन श्रीआर्यरक्षितसूरिवरस्य प्रभूतं सन्मानं कृतम् ।
अन्यदा सूरिवरो बेणपापरनामनि बेनातटनगरे समागतः । तत्र नगरे कपर्दिनामा व्यवहारी परिवसति । तस्य समयश्रीनाम्नी पुत्री विद्यते । सा प्रतिदिनं कोटिमूल्यान्यलंकाराणि स्वकीयशरीरे धारयति । तयैकदा श्रीआर्यरक्षितसूरेवैराग्यरसमया देशना श्रुता । तया देशनया सा संसाराद् विरक्ता संजाता । ततस्तया सर्वाणि देहभूषणानि त्यक्त्वा स्वकीयसखीनां पंचविंशत्या सह श्रीआर्यरक्षितसूरीणां पार्थे पारमेश्वरी दीक्षा गृहीता । तस्मिन् समये बहुभिर्मिथ्यादृष्टिभिमिथ्यात्वं त्यक्त्वा जैनधर्मः स्वीकृतः । अथ सो कोटिव्यवहार्यपि गूर्जरपतेः श्रीसिद्धराजजयसिंहभूपालस्य कोषाध्यक्षः संजातः । एकदा तस्य कोषाध्यक्षस्य मुखात् भूपतिना श्रीआर्थरक्षितसूरेः प्रशंसा श्रुता । ततो प्रसन्नीभूतचेतसा भूपतिना वाग्भटमंत्रिणं कथयित्वा श्रीआर्थरक्षित सूरिराकारितः । ततः सपरिवारः श्रीआर्यरक्षितसूरिः सिद्धपुरपत्तने समागतः । नृपेण महोत्सवेन सूरिवरः प्रवेशितः । ततः आयरक्षितसूरिवर्य उपाश्रये समागतः स्थितश्च । ___ अथापुत्रस्य सिद्धराजजयसिंहभूपस्य पुत्रेच्छा संजाता । तेन दूरादपि ब्राह्मणपंडिताः समाकारिताः पृष्टं च-मम पुत्रो नास्ति, तत्पुत्रेच्छा वर्तते । स पुत्र मम कथं स्यात् तत्कथयत । विप्रेरकत्र संमोल्य, परस्परं विचार्य, निर्णयं कृत्वा नृपस्य प्रोक्तम्-हे राजन् पुत्र कामेष्टियज्ञं कारय, तेन तव पुत्रो भविष्यति । तन्निशम्य पृथ्वीपतिना पंचदशदिवसकालिकं पुत्रकामेष्टियज्ञं कतु द्विजेभ्य आज्ञा दत्ता । ब्राह्मणैः पुत्रकामेष्टियज्ञः नृपाज्ञया समारब्धः । दशमे दिवसे रात्रौ यज्ञमंडप एका धेनुः प्रविष्टा, कृष्णसर्पेण च दष्टा । सा तत्रैव मृता । प्रातःकाले ब्राह्मणा यज्ञमंडपे समागताः । तत्र मृतां धेनुं
(ક)
શ્રી આર્ય કયાણગૌતમસ્મૃતિગ્રંથ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org