________________
hodsbshseshdodeseededesevedosksksksedosbsedosbobdesesesksebasedesesedodedestaskedasesesbobsodesbeededesidedasheet
तसूरिणः श्रीसीमंधरजिनप्रशंसितं शास्त्रसंमतं विशिष्टविशुद्धमुग्रमन्यनमणसमुदायेभ्योऽत्यंतश्रेष्ठं चारित्रजीवनं कथितवत्यौ । तच्छ्रुत्वा महाकालीदेवी तेषामाचार्याणां परीक्षां कर्तुं यत्र यात्रासंघे श्रीआर्यरक्षितसूरय सन्ति तत्र समागता, श्रीआर्यरक्षितसूरयः यात्रासंघेन सह चलन्तोऽपि यात्रासंघस्य भोजनमध्यात् भिक्षां न गृह्णन्ति । तज् ज्ञात्वा महाकालीदेवी कस्यचिद् ग्रामस्य समीप एकं गृहं कृत्वा मानुषीरूपं विधाय विविधखाद्यसामग्री गुहीत्वा स्थिता । तदा श्रीआर्थरक्षितसूरिरेकेन मुनिना सह भिक्षा ग्रहीतुमगच्छत् । तया देव्या भिक्षार्थ स्वगृहे आकारितः । सूरिस्तस्याः सद्भावं ज्ञात्वा तद्गृहे भिक्षार्थं गतो विविधां भिक्षासामग्री दातुमिच्छंत्यास्तस्या नेत्रयोरनिमेषत्वं, चतुरंगुलमुपरिस्थौ भूमिमस्पृशंतौ च पादौ निरीक्ष्य तां देवी ज्ञात्वा, जैनसाधूनां देवपिण्डमकल्प्यमिति शास्त्रवचनं स्मरन् स सूरिभिक्षामगृहीत्वा तद्गृहान्निर्गतः सन् समीपस्थं खेटकनगरं गत्वा शुद्धां भिक्षां गृहीत्वा स्वोत्तारके समागतः । ततोऽन्यदिवसे सा महाकाली देवी तत्र समागता स्वर्णनिष्कभृतं स्थालं च सूरये दातुं लग्ना परं सूरिणा तन्न स्वीकृतम् । तदा सूरेनिस्पृहत्वं विशुद्धचारित्रं च ज्ञात्वा देव्या प्रोक्तम्-भगवन् , अहं त्वदीयं जैनशास्त्रसंमतमार्गे विशुद्धं निश्चलं च गमनं दृष्ट्वा प्रसन्नाऽस्मि । युष्मदीयसमुदायो विधिपक्षगच्छनाम्ना प्रसिद्धो भविष्यति । अहं महाकालीदेवी युष्मदीयविधिपक्षगच्छस्याधिष्ठायिका भवामि, पावकगिरिस्थाऽहमस्मीति प्रोच्य सा देवी गता ।
अथ यशोधनश्रेष्ठिनः शत्रुजयमहातीर्थयात्रासंघो जिनशासनप्रभावनां कुर्वन् प्रतिदिनं शास्त्ररीत्या प्रयाणं करोति । सूर्युपदेशेन सर्वे यात्रिका विविधाआराधनाः कुर्वन्तश्चलन्ति । संधपतिरुदारमनसा मार्गे जीर्णोद्धारयोग्यानां जिनालयानामुपाश्रयाणां च जीर्णोद्धारार्थ व्यवस्थाकरणपूर्वकं द्रव्यं ददाति । विविधां साधर्मिकभक्तिं करोति कारयति च, दीनदुःखिनां चोद्धारं कुर्वन् सानंदो यात्राकार्याणि करोति कारयति च । एवं यात्रासंघः प्रयाणानि कुर्वन् सूर्युपदेशान् श्रुण्वन् क्रमेण श्रीशत्रुजयमहातीर्थ प्राप्तो, महातीर्थस्य यात्रां कृत्वा सर्वे यात्रिकाः स्वं धन्यं मन्यन्ते स्म । संघपतियशोधनश्रेष्ठिना तत्र सन्मार्गे तीर्थभक्तिमध्ये बहुधनव्ययं कृत्वा स्वं जन्म सफलीकृतम् ।।
ततः श्रीआर्यरक्षितसूरिवरः सपरिवारोऽन्यत्र विजहार । अन्यदा विहारं कुर्वन् सूरिः पारकरदेशे सुरपाटणपुरे समागतः । तत्र परमारक्षत्रियज्ञातीयो महीपालनामा भूमिपतिर्विशिष्टं राज्यं करोति । तस्मिन्नगरे तदा केनचित्कुपितेन दुष्टदेवेन मारी प्रवर्तिता । तेन बहूनां जनानां मरणानि भवन्ति । महीपालनृपेण मारीनिवारणकृते बहव उपायाः कृताः कारिताश्च तथापि मारीनिवारणं न संजातम् । तदा धरणाकमंत्रिणा भूपालस्य निवेदितम्-आर्यरक्षितसूरयोऽत्र समागता सन्ति, ते महाप्रभावकाः संति, मारीनिवारणार्थं तेषां पार्श्व गत्वा विज्ञप्तिः कार्या इति । तन्निशम्य भूपेन सूरयो विज्ञप्ताः । सूरिभिर्जलं
આ શ્રી આર્ય ક યાણાગૌતમ સ્મૃતિગ્રંથ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org