________________
[x]
estestesttestteste testostestedesteste testestetstestestekstevestestefolksfeststestostestestalatesasieste stastesiastesksistisestecksesestsketetoskele
धनस्य दाहज्वरो नष्टः । ततस्तस्य यशोधनश्रेष्ठिनो जनन्याऽम्बिकादेवी कथितं वृत्तांतं कथयित्या, विजयचंद्रोपाध्यायस्य तस्य च चरणोदकस्य सर्वो वृतान्तः प्रोक्तः । तन्निशम्य चमत्कृतो यशोधनः श्रेष्ठी सपरिवारो जैनोपाश्रयं गत्वा तत्र स्थितं विजयचंद्रोपाध्यायं वंदित्वा गुर्वाज्ञयोपविष्टः । उपाध्यायेन जैनधर्मस्य उपदेशो दत्तः । तन्निशम्य ज्ञातजैनधर्मस्वरूपेण सानन्देन यशोधनधनिना सम्यक्त्व सहित द्वादशवतात्मकश्रावकधर्मः स्वीकृतः । तस्य समग्रपरिवारेणाऽपि मिथ्याधर्मं त्यक्त्वा जैनधर्मः स्वीकृतः । ततो गुरूपदेशेन यशोधनधनिना स्वस्य भाण्डशालीति गोत्रं स्थापितम् । अथ गुरुभक्तन यशोधन भाण्डशालिनाऽत्याग्रहेण श्रीजयसिंहसूरयो भालेजनगरे समाकारिताः । ततो विजयचंद्रोपाध्यायायाचार्यपदप्रदानं कर्तुं याचिताः । ते सूरयो वैराग्यवतेऽनिच्छतेऽपि तस्मै गुणवते विजय चंद्रोपाध्यायाय यशोधनकृतमहोत्सवेन (भालेजनगरे) आचार्यपदवीं दत्तवन्तः । संघे महानंदः प्रवर्तितः । तस्मिन्नाचार्यपदप्रदानमहामहे यशोधनश्रेष्ठिनैकलक्षद्रव्यव्ययः कृतः । एषाचार्यपदवी विक्रमस्यै कोनसप्तत्यधिकैकादशशतवर्ष वैशाखमासस्य शुक्लतृतीयाऽपरनामाक्षयतृतीयाशुभदिवसे संजाता । गुरुणा तदा आर्यरक्षितसूरिरित्यभिधानं दत्तम् । ततो जयसिंहसूरयस्तस्मै कांश्चन विद्यामंत्रान् शिक्षां च दत्त्वा परमेष्ठिमहामंत्र जपन्तः समाधिनाऽऽयुः पूर्ण कृत्वा स्वर्ग गताः ।
अथ श्रीआर्यरक्षितसूर्युपदेशेन यशोधनश्रेष्ठिनैकमहाजिनालयनिर्माणमारब्धं परं तद्भूमिपतिव्यंतरदेव उपद्रवान् कर्तु लग्नः । प्रतिदिनं जिनप्रासादस्य पादगर्तामस्थिभिः पूरयति । खिन्नेन यशोधनश्रेष्ठिना सवृत्तांत आर्यरक्षितसूरीणां कथितः । सूरिणा विद्यासामर्थ्येन विघ्नकारी व्यन्तरः प्रत्यक्षीकृत्य स्तंभितः । तेन स्तंभनत्वेन पीडितः सः व्यंतरः प्रोवाच-भगवन्ननेन यशोधनेन मा नैवेद्यफलादिदानपूर्वकं निवेदनमकृत्वा जिनालयनिर्माणकार्य प्रारब्धं, तेनाहं विघ्नं करोमि, भवन्तो मां मुक्तं कुर्वन्तु । स्तंभनत्वेनाहं बहुवेदनामनुभवाभि । यशोधनो मदीयां चतुर्हस्तां मूर्ति जिनबिंबालयस्य बहिर्भित्तौ यदि करिष्यति तदाहमुपद्रवान् न करिष्यामि । तच्च श्रुत्वा सूरिणा मुक्तः कृतः सम्यक्त्वं च प्रापितो, यशोधनेन च तस्य मूर्तिकरणं स्वीकृतम् । ततो सूरिं प्रणम्य व्यंतर अदृश्योऽभूत् ।
अथ यशोधनभाण्डशालिना निर्विघ्नतया जिनालयनिर्माणकार्य समारब्धं शीघ्रतया संपूर्ण च कृतम् । तत आर्यरक्षितसूरिणो निश्रायां च तस्य महाजिनालयस्य महामहोत्सवेन च प्रतिष्ठा श्री संघस्य संमत्या साहाय्येन च यशोधनेन श्रेष्ठिना कारिता । तत आयरक्षितसूरिण उपदेशेन श्रीशत्रुजयमहातीर्थाधिराजस्य यात्राया महासंघो निष्काशितः । तस्मिन् पाद चारिणि छरीपालके श्रीशर्बुजयमहातीर्थयात्रासंबे यशोधनश्रेष्ठिनो विज्ञप्त्या सपरिवाराः श्रीआर्यरक्षितसूरयोऽप्यचलन् ।
अन्यदा श्रीचक्रेश्वरीपद्मावतीदेव्यौ पावकगिरिस्थितायाः स्वसख्या महाकाल्याः पार्थे श्रीआर्यरक्षि
ADS શ્રી આર્ય ક યાણ ગોતમ સ્મૃતિગ્રંથ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org