________________
♚♚****♠♠♠র[4]
समागत्य तत्र मासिकमनशनं कृत्वाऽऽत्मसाधनां कुर्वाणः स्थितः । अस्मिन् समये महाविदेहक्षेत्रे श्री सीमंधरजिनदेशनां श्रोतुं श्रीचकेश्वरी पद्मावतीदेव्यौ समागते, देशनान्ते ताभ्यामेवं पृष्टं - भगवन्नधुना दक्षिणार्ध भरतक्षेत्रे जैनशास्त्र संमत- विशुद्ध साध्वाचारपालनप्रवराः केऽपि श्रमणाः सन्ति न वा । तदा भगवता सीमंधरस्वामिना प्रोक्तम् अधुना दक्षिणार्धभरतक्षेत्रे गुर्जरदेशे पावागढ इत्यपरनाम्नि पावकगिरौ मासिकमनशनं कृत्वाऽऽर्यरक्षितसूरीत्यपरनामा विजयचंद्रोपाध्याय आत्मसाधनं कुर्वाणः स्थितोऽस्ति । सशास्त्र संमतविधिमार्गाऽतिरक्तः सन् विधिमार्गस्य संचालकः प्रचारकश्च भूत्वा जिनशासनस्य प्रभावको भविष्यति, तेन च विधिपक्षगच्छः प्रवर्तिष्यति । तद् भगवद्वचनं श्रुत्वा ssनंदिते चक्रेश्वरी पद्मावतीदेव्यौ दक्षिणार्धभरतक्षेत्रे गूर्जरदेशस्थिते पावकपर्वते समागत्य कृतमासिकानशनं विजयचंद्रोपाध्यायं भावेन प्रणम्य प्रोचतु-भगवन् आवां महाविदेहस्थित श्रीसीमंधर भगवदेशनां श्रुत्वा भगवन्मुखाच्च युष्मत्प्रशंसां निशम्यात्र भवदवंदनार्थमागते स्वः । आवाभ्यां पृष्टेन श्रीसीमंधरस्वामिना भगवता प्रोक्तम् - अधुना दक्षिणार्धभरते शास्त्रसंमतविशुद्ध चारित्रपालको गूर्जरदेशस्थपावकगिरौ कृतानशनो विजयचंद्रोपाध्यायो वर्तते । स शास्त्रविधिमार्गस्य, उग्रतया पालकः प्रचारको विधिपक्षगच्छाद्याचार्यश्च जिनशासनप्रभावको भविष्यतीति । मासिकमनशनं पूर्ण संजातं युष्माकं ततो यूयमनशनं पारयित्वा पारणं कुरुत । युष्मा - कमतः परं प्रासुका भिक्षा सुलभा भविष्यतीति प्रोच्य देव्यौ स्वस्थानं गते । अथ संजातोत्साहो विजयचंद्रोपाध्यायः सागारिकेऽनशने पूर्णे जाते सति पावकगिरेरुत्तीर्य गोचरचर्यया प्रासुकमाहारं जलं च भालेजनगरे लब्ध्वा पारणं चकार, सपरिवारश्च तत्रत्योपाश्रये समागत्याऽऽराधनां कुर्वाणः स्थितः ।
तस्मिन्भालेजनगर एको गौतमगोत्री मांडशाली महाधनी यशोधननामा व्यवहारी वसति स्म । तस्य पूर्वजान् प्रागुदयप्रभसूरि : प्रतिबोध्य जैनधर्मे स्थापितवान् पश्चान्मिथ्याविनां संसर्गेण तत्परिवारो मिध्यात्वी संजातः । अथैकदा पूर्वकर्मोदयात् तस्य यशोधनश्रेष्ठिनो दाहज्वरः समुत्पन्नस्तेन स श्रेष्ठी कुत्रापि शांति नावाप । तस्य पत्नीपुत्रादिभिर्बहव उपचाराः कारिताः । तथाऽपि तस्य देहे शांतिर्न जाता । तदा यशोधनस्य मात्राऽष्टमतपः कृत्वा स्वगोत्रदेवी समाराधिता । ततः साऽम्बिका गोत्रदेवी प्रत्यक्षीभूय प्रोवाच- युष्माकं पूर्वजा जैनधर्मपालका बभूवुः पश्चाद्ययं मिध्याधर्माराधकाः संजाताः । ततस्तव पुत्रस्य दाहज्वरो मयोत्पादितो | अथ यूयं यदि सुखशांतिप्राप्तुकामास्तर्हि पुरेऽस्मिन् विशुद्धजैनधर्मस्य पालकाः प्रचारका विजयचंद्रोपाध्यायाः समागताः सन्ति । तेषां चरणोदकस्याssछोटनेन तव पुत्रस्य दाहज्वरो गमिष्यति । ततो यूयं जैनधर्माराधका भवतेति कथयित्वाऽम्बिकादेवी गता । ततो . यशोधनश्रेष्ठिनो माता विजयचंदोपाध्याय समीपं गया, तस्य पुरोऽम्बिकादेवीकथितं कथयित्वा तेषां चरणोदकं गृहीत्वा गृहमागत्य, यशोधनस्य शरीरे तज्जलमसिंचयत् । तस्य जलस्य प्रभावेण यशो -
શ્રી આર્ય કલ્યાણૌતમસ્મૃતિગ્રંથ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org