________________
shousathseubteshdodeshdesesesesesedesesedesedeskededesesesfactiofastebe-eduotesentineseleasedasesentsLesleshsastistest
वर्तनसंतप्तहृदयेनाऽऽयरक्षितसूरिणा विचारितं-धिगस्माकं जीवितं वयं तारकजैनशास्त्रसंमत-मोक्षसाधकसाधुमार्गविलोपन-महापापेषु पतिताः स्मः । उन्मार्गप्रचारकाणामुन्मार्गवर्तननिमग्नानामहो कदाsस्माकं निस्तारो भविष्यति ? शास्त्रविरुद्धाचरणमग्नानामस्माकं शास्त्रविरुद्धमुत्सूत्रप्ररूपणमपि कदाचिद्भवत्यतः पापे पतितानामहोऽस्माकं कदा महाभयंकर-संसार-कारागारादुद्धारो भविता : अहा, वयं महाकष्टे पतिता स्मः । अस्माकं साध्वाचारपालनेन विना कोऽप्यन्य उपायो नास्ति । जगदुपकारकसाध्वाचारस्य रक्षणं करणीयमेवाऽन्यथैतादृशस्य तारकशास्त्रसंमत साधुमार्गस्य विलोपकरणस्वरूपो महाऽनर्थो भविष्यतीत्यादिविचारणां कृत्वा व्यस्थितहृदय आर्यरक्षितसूरिनत्वा गुरुनवदत्-भगवन् शास्त्र संमत तारकसाधुमार्गविलोपनमहापापे पतितोऽस्मि, मामस्मान्महापापादुद्धर जैनशास्त्रसंमत तारकसाधुमार्गाचरणेच्छा वर्तते । तस्माद् यूयं शास्त्रसंमत साध्वाचाराचरणं स्वीकृत्याऽस्मान् तारयताऽथवा मां शास्त्रसंमतसाधुमार्गाचरणरक्षणाज्ञां प्रयच्छत, तारकश्रीजिनशासनस्य तारकाचारपालनरक्षे कर्तव्य एव । तन्निशम्य गुरुणा गद्गद स्वरेण प्रोक्तम्-वत्स, त्वया प्रशंसनीया विचारणा कृता, तुभ्यं धन्यवादं ददामि अस्माकं पापोदयेनाऽधुना वयं शास्त्रसंमतसाध्वाचारपालने समर्था न स्मः । तुभ्यं संमति यन्छामि त्वं सुखेन शास्त्रसंमतसाधुमार्गपालननिमग्नो भव । तद् गुरुवचनं श्रुत्वा प्रहृष्टहृदयेनाऽऽर्यरक्षितसूरिणा प्रोक्तम्-भगवन् महा कृपा, अथाहमाचार्यपदमुपाध्यायपदं च त्यजामि । गुरुणा प्रोक्तम् ,--पदवीत्यागं मा कुरु । शिष्येण प्रोक्तम्-अधुना मम साधनामार्गे पदवी विघ्नभूता भविष्यति तस्मात्पदवीत्यागो वरः । तनिशम्य गुरुणा तस्याचार्यपदवीत्यागः स्वीकृतः परमुपाध्यायपदवीत्यागो न स्वीकृतो गुरोराज्ञया तेनोपाध्यायपदवी रक्षिता । ___अथ स विजयचन्द्रोपाध्यायः पुनर्विशुद्धदीक्षावतोच्चारणं ताशविशुद्धचारित्रपालनेच्छुभिर्मुनिभिः सह कृत्वा गुरोरनुज्ञां गृहीत्वा ततोऽन्यत्र विहारं कुर्वन् विशुद्ध मुग्रं चारित्रं पालयन्ननेककष्टानि सहमानो धर्मप्रचारं कुर्वन्नस्ति स्म ।
अथ तस्मिन् काले शिथिलाचारे प्रवर्तमानानां यतिसमुदायानां यतिपतीनां च साम्राज्यं प्रवर्तमानमासीत् । लोकाश्च तथाविधशिथिलाचारिणां मंत्रविद्याज्योतिषादिप्रयोगकारिणां यतीनां यतिपतीनां च भक्ताः संजाताः आसन् । तेन विशुद्धचारित्रपालने स्थिरचित्तस्य विजयचंद्रोपाध्यायस्य सत्कारः सन्मानः प्रासुकाहारजललाभश्च दुर्लभोऽभवत् । तथापि विजयचंद्रोपाध्यायः शास्त्रसंमतविशुद्रचारित्रपालने तत्परः सन् कष्टानि सहमानो, ग्रामानुग्रामं बिहरन् , धर्मप्रचारं कुवन्नस्ति स्म । दशसु वर्षेषु शीलगुणसूर्याद्यनेकाचार्यमुनीनां संसर्गे समागतस्य तस्योपाध्यायस्य कुत्रापि चित्तशान्तिकरा विशुद्धता न प्राप्ता। ततः शिथिलाचारिणां प्राबल्येन तस्य प्रासुकाहारजललाभोऽपि बहुदुर्लभोऽभवत् । तेन स पावकगिरि
30) આ શ્રી આર્ય કયાા ગોતમ સ્મૃતિગ્રંથ
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org