________________
rashesboosterestesbefeofestedfastealesedashedsabsedeofosfesosestefafaate fastesesertedesdesbsestastestastestastasbstest datta steotasa sbsesbahi
स्वप्ने शासनदेवीकथितं वचनं स्मृत्वा सूरिणा द्रोणदेदीपुत्रग्रहणेच्छा कृता । तौ दम्पती अपि पंचवर्षीयं स्वकीयं बालं गोदुहकुमारं सार्धं गृहीत्वा सूरिसमोपं समागतौ । तदा 'वयजा' इत्यपरनामा स गोदुहकुमारः सूरेः समीपं गत्वा सूरेरासन उपविष्टः । तदा तस्य बालस्य तथाविधं चेष्टितं ज्ञात्वा देहलक्षणानि च निरीक्ष्य तस्मिन् शासनप्रभावकत्वं (च प्रपश्य) चोपलक्ष्य हर्षि तेन सूरिणा तयोर्दम्पत्योः पार्श्वे तस्य बालस्य गोदुहकुमारस्य, जिनशासनस्य प्रभावनायाः कृते, याचना कृता । सूरिकृतया चनां श्रुत्वा, पूर्वदत्तं स्ववचनं स्मृत्वा, स्वात्मजेन भाविनीं जिनशासनस्य महतीं प्रभावनां विचार्याऽतिशयेनाऽऽनंदिताभ्यां ताभ्यां द्रोणमंत्रिदेदीदेवीभ्यां श्रावकश्राविकासंघसमक्षं स्वकीयो बालो गोदुहकुमारो जिनशासनस्य कृते श्रीजयसिंहसूरये समर्पितः । तेन, संघेन तयोर्दम्पत्योः सत्कारः कृतः । ततः सुखेन कालं नयतो र्तयो द्वितीयः पुत्रः संजातः । तस्य बालस्य ताभ्यां 'सोल्हा' इति नाम दत्तम् ।
अथ श्रीजयसिंह पूरिस्तं गोदुहकुमारं साई गृहीत्वाऽन्यत्र गतः । अन्यदा खंभातनगरे सपरिवारः जयसिंहसूरिः समागतः । श्रीसंधकृतसत्कारसन्मानः सूरिMमुहूं तं गोदुहकुमारं श्रीसंघकृतमहादीक्षामहोत्सवपूर्वकमदीक्षयत् । द्विचत्वारिंशदधिकैकादशशतवर्षे वैशाखशुक्लाष्टम्यां दीक्षां दत्त्वा तस्य नवदीक्षितस्य च नाम विजयचंद्र इत्यदात् स्वशिष्यं चाकरोत् ।
अथ विजयचंद्रमुनिः सततमध्ययने रक्तोऽभवत् । स्तोककालेन तेन विजयचंद्रमुनिना संस्कृतव्याकरणकाव्यन्यायादिग्रंथानामध्ययनं कृत्वा तेषु तेषु विषयेषु निपुणत्वं प्राप्तम् । जैन शास्त्राणामध्ययनं कुर्वाणेन तेन विजयचंद्रमुनिना समग्रजैनशास्त्रसागरोऽवगाहि । ततस्तेन विद्वद्र्येण मुनिवर्येण जैनशास्त्राणामध्यापन कार्य सततमारब्धम् । जैनशास्त्राध्यापनकार्ये निष्णा तं तं विजयचंद्र मुनि ज्ञात्वाSSचार्यश्रीजयसिंहसूरिणा तस्मा उपाध्यायपदं प्रदत्तम् । ततः क्रमेण विशिष्टशक्तिमंतं संजातं तं विजयचंद्रोपाध्यायं विज्ञायाचार्यश्रीजयसिंहसूरिणा तस्मा आचार्यपदवी एकोनषष्टयधिकैकादशशतवर्षे मृगशीर्षशुक्लतृतीयायां पत्तनपुरे संधकृतमहोत्सवपूर्वकं दत्ता ।
अथैकदा जैनशास्त्राणां स्वाध्यायं विचारणां च कुर्वाणेन श्रीआयरक्षितसूरिणा श्रीदशवैकालिकसूत्रस्य “ सीओदगं न सेविज्जा'' अस्या गाथाया अर्थविचारणानिमग्नेनैवं विचारितं यद् यतिभिः प्रासुकं जलं सेवनीयमिति शास्त्रे प्रोक्तमस्ति । वयं तु तथा न कुर्मस्तत्किमेतदसमंजसम् ? ततस्तेनैतद्विषये गुरवः पृष्टा:-हे भगवन् किमेतदविचारित शास्त्रविरुद्धं वर्तनं क्रियते ? गुरुभिः प्रोक्तम्अभाग्योदयेनाऽस्माभिरघुना शास्त्रसंमत-मार्गो नानुस्रियते, अधुना प्रायो यतय एवमेव विरुद्धं वर्तनं कुर्वन्ति । शास्त्राविरुद्धं वर्तनं कतुं वयमधुनाऽस्मिन्काले न शक्नुम इति । गुरुवचनं निशम्य शास्त्रविरुद्ध
મી શ્રી આર્ય કયાણગૌતમ સ્મૃતિગ્રંથ
છS
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org