________________
[२]ideoshotsleseshshast shorseedstveseseseseseseseseseseseseseasesfactsdesesedeshsbsessfestatestlessettesblishesists
दत्त्वा एवं प्रोक्तम्-एष च बालस्तयोर्दम्पत्योः पार्थात् याचितव्य इति । तेन कारणेन युवामाकारितौ स्थः । अथ स्वप्नानुसारेण युवयो विनो बालस्याहं याचनां करोमि । सूरिवचनं निशम्य हर्षोल्लसिताभ्यां ताभ्यां सूरिवचनं स्वीकृतम् । ततः सानंदेन सूरिणा पृष्टम्-वयमत्र नगरमागतास्तदा युवां वंदनाथ कस्मात्कारणान्नागतौ । तन्निशम्य देदीदेव्या प्रोक्तम्-जैनशास्त्रज्ञा युयं कथं शास्त्रविरुद्धं शिथिलाचारं प्रवर्तयध्वं, शास्त्रे शास्त्रविरुद्धाचारं प्रवर्तयन्तोऽवंदनीयाः कथिताः सन्ति । तस्माच् शिथिलाचारे रक्तानां युष्माकं वंदनार्थमावां नागतौ । अतो यूयमतः परं शिथिलाचारं त्यक्त्वा जैनशास्त्रानुसारेण विशुद्धसाध्वाचारपालका भवत, जिनशासनस्य च तारकसाध्वाचारं रक्षत, रक्षितोऽयं तारकजैनसाध्वाचारो बहूनां भविजीवानामुद्धारको भविष्यति । देदीदेव्यास्तं वचनसमूहं श्रुत्वा श्रीजयसिंहसूरिणा प्रोक्तम्-हे सुज्ञश्राविके त्वत्कथनं सत्यं शोभनमुपकारकं चाऽस्ति, वयं शिथिलाचारिणः संजाता, जिनशासनस्य तारकसाध्वाचारस्य दुर्लभकारका जातास्तद् वरं न संजातमतः परं वयं तु शिथिलाचार त्यक्तुं विशुद्धतारकजिनशासनस्य साध्वाचारं च पालयितुं न शक्नुमः किन्तु स्वप्ने कथितेन शासनदेव्या वचनेन त्वत्कुक्षितो यः श्रेष्ठपुत्रो भविष्यति स जिनशासनस्य महाप्रभावको भविष्यति, जिनशासनस्य तारकसाध्वाचारस्य च विशुद्धपालकः प्रचारकश्च भविष्यति इति । सूरिवचनं श्रुत्वा स्वपुत्रेण जिनशासनस्य प्रभावना भविष्यति इति निशम्यातीवानंदितौ तौ दम्पती स्वस्थानं गत्वा धर्मकार्यतत्परौ संजातो। सपरिवारः सूरिश्चान्यत्र ययौ। शासनदेव्या स्वप्ने तयोदेम्पत्योः कर्थितम्-युवयोः प्रथमपुत्रो जन्मतो यदा पंचवर्षीयो भवेत् तदा श्रीजयसिंहसूरये समर्पणीयः । ततो युवयो द्वितीयपुत्रो भविष्यति स युवयोवंशवृद्धि करो भविष्यति ।
अन्यदा देदीदेव्या स्वप्ने स्वयं दुग्धपानं कृतमेवमवलोकितम् । तस्यां रात्रौ तस्याः कुक्षौ देवलोकाच्चुत्वा कोऽपि भाग्यवान् जीवोऽवतीर्णः । सानंदा देदीदेवी वल्लभाय स्वप्नकथनं कृत्वा, अनंतरं स्वप्नजागरणं कृत्वा, भाग्यशालिपुत्रप्राप्तिरूपं स्वप्नफलं ज्ञात्वा शोभनरीत्या गर्भपालनं करोति स्म । नवमे मासे पूर्णे देदीदेवी भाग्यशालिनं तेजस्विनं नंदनं विक्रमस्य षट्त्रिंशदधिकैकादशशतवर्षे श्रावणमासस्य शुक्लपक्षे नवभ्यां तिथौ शनिवासरे सुखेन प्रासूत । द्रोणश्रेष्ठिना पुत्रस्य जन्ममहोत्सवं कृत्वा, ' मात्रा स्वप्ने धेनुदुग्धपानं कृतं' तेन कारणेन पुत्रस्य 'गोदुहकुमार' इति नाम स्थापितम् । स बालः सर्वेषां प्रियोऽभवत् । शुक्लद्वितीयाशशिकला इव स वृद्धि प्राप्तो जैनदेवगुरुदर्शनप्रियः सदाचारप्रियश्च जातः । स बालः पितृभ्यां लाल्यमानः पाल्यमानो यदा पंचवार्षिक: संजातस्तदा श्रीजयसिंहसूरिस्तत्र नगरे समागतः ।
DEી શ્રી આર્ય કયાણ ગોતમ સ્મૃતિગ્રંથ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org