________________
परमपूज्य-युगप्रधान दादाश्री आर्यरक्षितसूरीश्वराणां संक्षिप्तं जीवनचरित्रम्
- अचलगच्छाधिपति पू. आ. श्री गुणसागरसूरीश्वराः ॐ ही अहँ नमः अनेक जिनप्रासादालंकृतस्याऽत्युन्नतस्य श्री अर्बुदगिरेः संन्निधौ समृद्ध दंताणी नाम नगरमासीत् । सज्जनकृतवासे, धनधान्यादिसंपूर्णे, विविधज्ञातिजनाकुले, विविधवस्तुपूर्णे, आपणश्रेणिविराजिते, जिनप्रासादादिधर्मायतनशोभिते तस्मिन् नगरे, समृद्धप्राग्वाटवंशे कोटयाधिपतिः, श्रेष्ठो धीमान् , जनमान्यो, राजमान्यो, महानिष्णातोऽनेकगुणगणालंकृतो द्रोणाभिधानः श्रेण्ठिवर्यः परिवसति स्म । तत्रत्य भूमिपतिना स द्रोणश्रेष्ठी स्वराज्यस्य प्रधानः कृतः । तस्य द्रोणश्रेष्ठिनः सुंदररूपधारिणी, शीलालंकृतशरीरा, मृदुभाषिणी, लावण्यवती देदी नाम्नी पत्नी आसीत् । जैनधर्मानुरागिणी, प्रतिदिनं जिनपूजां कुर्वन्तौ, दिः प्रतिक्रमणं कुर्वन्तौ, सत्पात्रं पोषयन्तौ पुष्यंतौ, धर्मध्यानं कुर्वन्तौ तौ दम्पती सुखेन तिष्ठतः स्म । द्रोणश्रेष्ठी न्यायेन राज्यकार्याणि करोति, न्यायेन च धनानि समर्जयति । तयो दम्पत्योः काऽपि सन्ततिर्नास्ति, तत्संबधि तयोर्हृदये महदुःखं वर्तते ।
अन्यदा तत्र गच्छाधिपतयः जयसिंहसूरयः शिबिकोपविष्टाः सन्तः समागताः । तस्मिन् समये बहवो यतयो बाहुल्येन शिथिलाचारिण श्चैत्यवासिनोऽभवन् । शिथिलाचारिणः प्रति अनादरं धारयन्ती तौ दम्पती वन्दनार्थ न गतौ कस्माद् वंदनार्थ न समागतौ इति सूरिभिर्विचारितं कांश्चित्पृष्टमपि तथापि कारणं न ज्ञातम् । तस्यां रात्रौ सूरीणां स्वप्ने शासनदेव्या प्रोक्तम्-द्रोणश्रेष्ठिनः पत्न्या देदीदेव्या उदरे गर्भवेन यो जीवः समागमिष्यति स देदीदेव्याः पुत्रो जैनशासनस्य महाप्रभावको भविष्यति, महात्यागी, महातपस्वी स जैनसाधूनां शिथिला चारं निवारयिष्यति, जैनशास्त्रसंमतविधिमार्ग प्रवर्तयिष्यति च तस्माद् युष्माभिस्तस्य बालस्य याचनाऽधुनैव द्रोणश्रेष्ठिदेदीदेव्योः पार्श्वे कर्तव्या ।
एवंविधं वरं स्वप्नं दृष्ट्वा श्रीजयसिंहसूरिणा दिवसे प्रादुर्भूते तौ दम्पती समाकारितौ । ततस्ताभ्यां दम्पतीभ्यां तत्र समागत्य मनसा विनाऽपि व्यवहारेण श्रीजयसिंहसूरिर्वन्दितः, पश्चात् सूरिणा प्रोक्तं भो महाभाग्यशालिनौ युवयो रतः परं यो बालो भविष्यति स बालो जिनशासनस्य महाप्रभावको, महात्यागी, महातपस्वी, जैनशास्त्रसंमतविधिमार्गप्ररूपकश्च भविष्यति, रात्रौ शासनदेव्या मम स्वप्न
આ ગ્રી આર્ય કયાણતમમ્રવિણા 2DE
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org