________________
अनेकधर्मात्मकः संसारः । नानाभावात्मकं च वस्तु । प्रतिपिण्डम् अनन्तगुणाः । प्रतिखण्डं नैके पर्यायाः । तथापि अखण्डा वस्तुनः अभिव्यक्ति: । अत्र विरोधाऽविरोधयोः विचार आपेक्षिकः । विधिप्रतिषेधविकल्पतले वचनविन्यासो भंगी प्रियः । किन्तु व्याख्यानच्छलेन मूलतत्त्वं नानायते । तथापि एकान्ततो न विधिः न वा निषेधः । देशकालयोः परिच्छिन्नपरिधिः विवेचनस्वरूपे नियामकः । विवक्षा सापेक्षिकी । विवक्षितपदार्थः न सर्वात्मना गौणः न वा प्रधानः । अतः स्यात्कारः अप्रयुक्तोऽपि व्यवस्थापकः । अनेकान्तो वाच्यरूपेण व्यवस्थाप्यः । दृष्टिरत्र प्रतिपक्षसापेक्षिणी । अविरोधानुरोधेन विमर्शो वस्तुनः स्वरूपं स्पृशति । अतः वस्तुविश्लेषणे अहिंसामयी प्रक्रियाऽत्र अभिव्यक्त ेः सामञ्जस्यं वहति । स्यात्कारश्च न सम्भावितार्थे, न कथंचित्पर्याये, न सन्देहपरिसरे, न वा अज्ञेयवादस्य अचिन्त्य कोलाहले पर्यवस्यति ।
वस्तुतः मैत्रीभावनातले अहिंसादृष्टिः अनेकान्तवादिनी । दृष्टिसीमां परिबध्नाति स्यान्निश्चयः । नेतिकारं परिपुष्णाति अविद्वेषविवेकः । नेतिकारे विरोधः शाश्वतिकः । परं दृष्टिभेदे विरोधो भिन्नः । अविरोधे अविद्वेषः अवश्यम्भावी । किन्तु ह्रास- विकासयोः प्रवाहप्रसरे धरा परिणामिनी । वस्तु परिवर्त्तते । अर्थोऽपि विवर्त्तते । अतः प्रथमकल्पे अहिंसा हिंसाया नेतिकारे नियमबद्धाऽभूत् । तदनुभावात्मकः कश्चित् कल्प उदितः । हिंसाभावस्य निषेधः सिद्धान्तरूपेण स्वीकृतः । विचारे तत्वं पर्युषितम् । हिंसाया लक्षणनिरूपणे कर्मवाद उत्थापितः । कर्मणश्च सीमांकनं स्पष्टीकृतम् । हिंस्रसंज्ञया प्रवृत्तिप्रसरो निरूपितः । अहिंसाया भावरूपा अभिव्यक्तिः मैत्रीरूपं निजीकृतवती, जीवनयज्ञस्य कर्मवलये इयम् आचारस्तरं समागता । आचारे नियमो लिपिबद्धः । आचारस्य अनुशासनरूपेण अहिंसा कल्याणस्य सरणिरभूत् । ततश्च धर्मविधो एषा भिन्नदिशा विकसिता । सकलकर्मबन्धे अस्याः तत्वं समुपस्थापितम् । इयं च सर्वभूतेभ्यो धर्मेभ्यो ज्यायसी मता । तदनु सकलभावकर्मणां मूल बिंदु रूपेण अहिंसा परमविद्या संजाता । सैद्धान्तिकस्तरे महाभारतकाले अहिंसायाः पूर्णविकासः परिलक्ष्यते - " अहिंसा परमो धर्मस्तथाऽहिंसा - परं तपः | अहिंसा परमं सत्यं यतो धर्मः प्रवर्त्तते ।" (अनुशासन पर्व, ११५ / २३) पुराणप्रवर्तितधर्मेषु उत्तमधर्मरूपेण अहिंसा पुण्यसाधिका संजाता । कालेऽस्मिन् हिंसाविरोधभावस्य कश्चित् प्रगुणितकल्पः जनसम्मुख उपस्थापितः । अक्लेशकारित्वं च अहिंसाया निर्यासरूपेण चतुर्थं खण्ड : जैन संस्कृति के विविध आयाम
ucation Internation
00000000000000000000000000000000000000000000000
दर्शन - प्राध्यापक श्री जगन्नाथ संस्कृत विश्वविद्यालय पूरी - ७५२००२
--डॉ० केशवचन्द्र दाश:
साध्वीरत्न कुसुमवती अभिनन्दन ग्रन्थ
अहिंसाया अन्तलिपि:
३३१
RCA2
එම දුම්මෙම් ල
www.ahiruwary.org